________________
२१०
व्यवहारसूत्रे अयं भावः–कस्यचित् शय्यातरस्य तैलशाला विद्यते तस्य अन्य एकोऽनेकेवाऽधिकारिणो ___ भवेयुः, शालातस्तैलादीनां विक्रयकरणेन यो लाभो जायते स एकस्य न भवति, किन्तु-अने
केषु विभज्यते, तत्र यो विक्रेता-स यदि साधवे तैलादिकं किमपि दद्यात् तादृशं वस्तु-तैलादिकं साधूनां ग्रहीतुं न कल्पते इति निषेधसूत्रम् ॥ सू० १७ ॥
अथ विधिसूत्रमाह--'सागारियस्स' इत्यादि ।
सूत्रम्--सागारियस्स चक्कियासाला निस्साहारणवक्कयपउत्ता तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ सू० १८॥
छाया-सागारिकस्य चक्रिकाशाला निस्साधारणाऽचक्रयप्रयुक्ता, तस्माद् दद्यात् ___एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १८ ।।
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातस्य-गृहस्थस्य 'चक्कियासाला' चक्रिकाशाला-तैलविक्रयशाला वर्तते किन्तु सा 'निस्साहरणवक्कयपउत्ता' निःसाधारणाऽवक्रयप्रयुक्ता निस्साधारणः--सागारिकभागरहितोऽवक्रयो विक्रयणम् , अत्र यत्किञ्चित्तैलादि, तत्संजातलाभश्च भविष्यति तत्सर्व तवैव न मम, इत्येवंरूपेण प्रयुक्ता-नियोजिता भवेत् , स्वतन्त्ररूपेण तस्यैव चक्रिकस्य न तु सागारिकस्य तत्र भागो विद्यते 'तम्हा दावए' तस्मात् तादृशनिःसाधारणचक्रिकाशालामध्यात् यत् साधूचित्तं तैलादिकमन्यद्वा वस्तु आपणस्थविक्रेता दद्यात् ‘एवं से कप्पइ पडिगाहित्तए' एवंप्रकारेण दीयमानं तैलादिकम् 'से' तस्यश्रमणस्य कल्पते प्रतिग्रहीतुम् ।
या खलु शाला साधारणा सागारिकभागयुक्ता भवेत् तन्मध्याद् दीयमानं वस्तु साधूनां न कल्पते प्रतिग्रहीतुमिति सप्तदशसूत्रस्याशयः । या तु खलु निस्साधारणा-सागारिकभागवर्जिता भाटकेन गृहीता, व्यापारमाश्रित्य चक्रिकस्य स्वतन्त्रा शाला भवेत्तन्मध्याद् दीयमानं तैलादिकं वस्तु साधूनां कल्पते प्रतिग्रहीतुम् । इत्यष्टादशसूत्रस्याशयः, एवमग्रेऽपि गौडिकशालादिसूत्राणि वोध्यानीति ।। सू० १८ ॥