________________
भाष्यम् उ० ८ सू० १३-१५
पतितोपलब्धोपकरणविषयो विधिः १९५
किं परिन्नाए ? से य एज्जा - परिन्नाए तस्सेव पडिणिज्जायव्वे सिया, से य वएज्जा नो परिन्नाए तं नो अपणा परिभुंजेज्जा नो अन्नमन्नस्स दावए एगंते बहुफाए थंडिले परिवेयव्वे सिया" || सू० १३ ॥
छाया --निर्ग्रन्थस्य खलु बहिर्विचारभूमिं वा विहारभूमिं वा निष्क्रान्तस्य यथालघुस्वकमुपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् साधार्मिकः पश्येत्, कल्पते तस्य सागारकृतं गृहीत्वा यत्रैवाऽन्यमन्यं पश्येत् तत्रैव एवं वदेत् - इदं भो आर्य । किं परि ज्ञातम् ?, स च वदेत् परिज्ञातम्, तस्यैव प्रतिनिर्यातव्यं स्यात्, स च वदेत् नो परिज्ञातम् तत् नो आत्मना परिमुञ्जीत, नो अन्यस्याऽन्यस्य दद्यात् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १३ ॥
भाष्यम् – 'णिग्गंथस्स णं' निर्ग्रन्थस्य - श्रमणस्य खलु 'वियारभूमिं वा' विचारभूमिं वा बाह्यभूमिम् उच्चारप्रस्रवणभूमिम्, अथवा 'बिहारभूमिं वा' विहारभूमिं वा स्वाध्यायादि - भूमिं प्रति 'णिक्खंतस्स' निष्क्रान्तस्य विचारायर्थे वहिर्गतस्य श्रमणस्य, अवशिष्टं सर्वं पूर्ववद् व्याख्येयम् ॥ सू० १३ ॥
पूर्व विचारभूमि विहारभूमिं वा गतस्य साधोः परिभ्रष्टोपलव्धोपकरणनातविषये विधिरुक्तः, सम्प्रति ग्रामानुग्रामं विहरतस्तद्विधिमाह - 'णिग्गंथस्स णं गामाणुगामं' इत्यादि ।
सूत्रम् - णिग्गंथस्स णं गामाणुगामं दूइज्जमाणस्स अन्नयरे उवगरणजाए परिभट्ठे सिया तं च केइ साइम्मिए पासेज्जा कप्पर से सागारकडे गहाय दूरमेव अद्धाणं परिवहित्तए, जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं वएज्जा - इमे भे अज्जो ! किं परिन्नाए ?, से य वऐज्जा परिन्ना ए तस्सेव पडिणिज्जायव्वे सिया, से य वएज्जा-नो परिम्नाए तं नो अप्पणा परिभुंजेज्जा नो अन्नमम्नस्स दावए, एगंते बहुफानुए थंडिले परिवेयव्वे सिया || सू० १४ ॥
छाया - निर्ग्रन्थस्य खलु ग्रामानुग्रामं द्रवतोऽन्यतरद् उपकरणजातं परिभ्रष्टं स्यात् तत् कश्चित् साधर्मिकः पश्येत् कल्पते तस्य सागारकृतं गृहीत्वा दूरमेवाध्वानं परिवोढुम्, यत्रैवाऽन्यमन्यं पश्येत् तत्रैव एवं वदेत् इदं भो आर्य ! किं परिज्ञातम् ? स च वदेत् परिज्ञातम् तस्यैव प्रतिनिर्यातव्यं स्यात्, स च वदेत्-नो परिज्ञातम् तत् नो आत्मना परिभुञ्जीत नो अन्यस्याऽन्यस्य दद्यात्, एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १४ ॥
भाष्यम् – 'णग्गंथस्स णं' निर्ग्रन्थस्य खलु 'गामाणुगामं दृइज्ञमाणस्स' ग्रामानुग्रामं द्रवतः-एकस्माद् ग्रामाद् ग्रामान्तरं प्रति विहारं कुर्वतः, 'अन्नयरे उवगरणजाए' अन्यतरत्-यत्