________________
१५४
व्यवहारसूत्रे निगमः-प्रभूततरवणिग्जननिवासः, आश्रमः-तापसैरावासितः, पश्चादपरोऽपि लोकस्तत्रागत्य वसति, संवाहः-कृषीवलैर्धान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् पर्वतशिखरस्थितजननिवासः, समागतप्रभूतपथिकजननिवासो वा, संनिवेशः-समागतसार्थवाहादिनिवासस्थानम् । एषु ग्रामादिषु, ‘एगवगडाए' एकवगडायाम् एका वगडा परिक्षेपः प्राकारः प्रकोटा इति लोकप्रसिद्धो यस्यां सा-एकवगडा, तस्यामेकवगडायाम् । तथा-'एगदुवाराए' एकद्वारायाम् एकं द्वारं यस्याः सा एकद्वारा तस्याम्, तथा 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् , एक निष्क्रमण-बहिनिंगमनमार्गः, एकः प्रवेशः-प्रवेशमार्गो यस्याः सा एकनिष्क्रमणप्रवेशा तस्याम् एतादृश्यां वसतौ इति शेषः, 'नो कप्पइ' नो कल्पते-न युज्यते । केषामेतादृशवसतौ वासो न कल्पते ? तत्राह-'वहूर्ण' इत्यादि, 'वहूणं अगड़सुयाणं' बहूनाम्-अनेकेषाम् अकृतश्रुतानाम्-अनधिगताचाराङ्गनिशीथादिसूत्राणाम् अगीतार्थानामशिवादिकारणवशादेकत्र संप्राप्तानाम् 'एगयओ' एकतः- एकत्र एकस्थाने मिलित्वा वस्तुं-वासं कर्तुम् ऋतुबद्धकाले वर्षाकाले वा न कल्पते इति पूर्वेण सम्बन्धः । यतः मगीतार्थसंगस्य दोषबाहुल्यात् तेषाम् ऋतुबद्धकाले वसतां मासलघु, वर्षाकाले चतुर्लघुकं प्रायश्चित्तं भवतीति । अपवादमाह-'अत्थि य इत्थ ण्हं केइ
आयारपकप्पधरे' अत्र 'हं' शब्दो वाक्यालङ्कारे, अस्ति चात्र यथोक्तविशेषणविशिष्टायां वसतौ कश्चित् आचारप्रकल्पधरः-आचाराङ्ग-निशीथादिसूत्रधारकः एकोऽपि यदि भवेत् तदा तादृशवसतौ ऋतुबद्धकाले वर्षाकाले वा निवासकरणेऽपि, 'नत्थि य इत्थ ण्ह केइ छेए वा परिहारे वा' नास्ति-न भवति अत्र वसतौ वासेऽपि तेषां वसतां कश्चित् छेदो वा परिहारो वा, आचारप्रकल्पधराधिष्ठितयथोक्तवसतौ बहूनामकृतश्रुतानां वर्षाकाले ऋतुबद्धकाले वा निवसतां छेदनामकं
परिहारनामकमन्यद्वा प्रायश्चित्तं न भवतीति भावः । गीतार्थेन सह वसतां केन कारणेन प्रायश्चित्तं __न भवति, यतो हि-गीतार्थस्तेषां मार्गदेशको भवति, यथा केचित्पुरुषा अटव्यां मार्गभ्रष्टा भवन्ति
तत्र कश्चिन्मार्गदेशकस्तान् मार्ग प्रदर्श्य नगरं प्रवेशयति, एवं गीतार्थोऽपि मोक्षपथपरिभ्रष्टानां मोक्षपथप्रदर्शको भवति तेन सह वसतां न किमपि प्रायश्चित्तं भवति, न तथा अगीतार्थ इति । 'नत्थि य इत्थ ण्ई केइ आयारपकप्पधरे' नास्ति-न विद्यते चात्र यथोक्तवसतौ खल कश्चिदाचारप्रकल्पधरः -आचाराङ्गनिशीथादिसूत्रार्थज्ञाता, तदा तादृशवसतौ वासकरणे ‘से संतरा छेए वा परिहारे वा' तेषां सान्तरात् यावतो दिवसान् तत्र स्थितास्तावत्प्रमाणरूपात् स्वकृतात् अपराधात् छेदो वा परिहारो वा, आचारप्रकल्पघराऽनधिष्ठितवसतौ वासकरणात् तेषां छेदनामकं परिहारनामकमन्यद्वा यथाशास्त्रं यथाकालं च प्रायश्चित्तं भवतीति भावः ॥ सू० १७ ॥