________________
अथ षष्ठोद्देशकः प्रारभ्यतेअथ पञ्चमोदेशकस्य चरमसूत्रेणास्य षष्ठोदेशकस्यादिसूत्रेण सह कः सम्बन्धः ? इति सम्बन्धं प्रदर्शयन्नाह भाष्यकार:--'पंचम' इत्यादि ।
गाथा-"पंचमउद्देसते, गिलाणभावो पदंसिओ मुणिणो ।
सो इच्छइ नायविहि, संबंधो एस नायव्वो" ॥१॥
.
छाया-पञ्चमोद्देशकान्ते ग्लानभावः प्रदर्शितो मुनेः ।
स इच्छति शातविधि, सम्बन्ध एप ज्ञातव्यः ॥ १॥ व्याख्या-पंचमउद्देसते'-पञ्चमोद्देशकस्यान्ते चरमसूत्रे 'मुणिणो' मुनेः-निम्रन्थस्य 'गिलाणभावो' ग्लानभावः-सर्पदंशेन मनोदौर्बल्यरूपः 'पदंसिओ' प्रदर्शितः । 'सो' सः-मरणाशङ्कादिना खिन्नः सन् ‘णायविहिं ज्ञातविधि, तत्र-ज्ञाताः-मातापित्रादयः तत्संवन्धीभूता वा, तेषां विधि-ज्ञातसम्बन्धमाश्रित्य तत्तत्संबन्धीभूतं ज्ञातभेदम् अन्यस्वजनान् वा 'इच्छई' इच्छति तेषां समीपे गन्तुमिच्छेदित्यर्थः । अथवा स्वजना ग्लाना मरणासन्ना वा भवेयुस्तेषां दर्शनदानाद्यर्थं वा गन्तुमिच्छेदिति षष्ठोद्देशकस्यादौ ज्ञातविधिः प्रदर्श्यते, एष सम्बन्धः पूर्वापरोद्देशकयोर्ज्ञातव्य इति ॥१॥ तत्रादिमं सूत्रमाह-"भिक्खू य इच्छेज्जा' इत्यादि ।
सूत्रम्-भिक्खू य इच्छेज्जा नायविहिं एत्तए, नो से कप्पइ थेरे अणापुच्छित्ता नायविहिं एत्तए, कप्पइ से थेरे आपुच्छित्ता नायविहिं एत्तए, थेरा य से वियरेज्जा एवं से कप्पइ नायविहिं एत्तए, थेरा य से नो वियरेज्जा, एवं से नो कप्पइ नायविहिं एत्तए, जं तत्थ थेरेहिं अविइण्णे नायविहि एई, से संतरा छेए वा परिहारे वा ॥ सू० १॥
छाया-भिक्षुश्च इच्छेत् शातविधिं नो तस्य कल्पते स्थविराननापृच्छय ज्ञात. विधिमेतुम् , कल्पते तस्य स्थविरान् आपृच्छय ज्ञातविधिमेतुम् , स्थविराश्च तस्य वितरेयुः, एवं तस्य कल्पते ज्ञातविधिमेतुम् , स्थविराश्च तस्य नो वितरेयुः, एवं तस्य नो कल्पते ज्ञातविधिमेतुम् , यत्तत्र स्थविरैः अवितीर्णो ज्ञातविधिमेति तस्य सान्तरात् छेदो वा परिहारो वा ॥ सू० १ ॥
__ भाष्यम्-'भिक्खु य इच्छेज्जा' भिक्षुः-श्रमणः च-शब्दात् श्रमणी च इच्छेत् , किमिच्छेत्तत्राह-'नायविर्हि' इत्यादि, 'णायविहिं एत्तए' ज्ञातविधि स्वजनभेदम् , ज्ञाता-मातापित्रादयः,