________________
१३०
व्यवहारसूत्रे
वासं कर्तुम् । यदा स्खलु प्रवर्त्तिनी आत्मचतुर्था भवति तदैव तस्या चातुर्मास्यं कत्तु कल्पते न तु तन्न्यूनाया इति भाव ॥ सू० ६ ॥
गणावच्छेदिन्या वर्षावाससूत्रद्वये प्रथमं निषेधसूत्रमाह-- 'नो कप्पड़' इत्यादि । सूत्रम्--नो कप्पइ गणावच्छेइणीए अप्पचउत्थीए वासावासं वत्थए | सू० ७ ॥ छाया - नो कल्पते गणावच्छेदिन्याः आत्मचतुर्थायाः वर्षावासं वस्तुम् ॥ सृ० ७ ॥
भाष्यम् – 'नो कप्पइ' नो कल्पते 'गणावच्छेइणीए अप्पचउत्थीए' गणावच्छेदिन्याः आत्मचतुर्थायाः आत्मना सह चतुः संख्य कायाः 'वासावासं वत्थए' वर्षावासं वस्तुं वास कर्त्तुम यदा खलु गणावच्छेदिनी चतु संख्याविशिष्टा भवेत् तदा तस्या वर्षाकाले वासो कल्पनीयो भवतीति भावः ॥ सू० ७ ॥
अथ द्वितीयं गणावच्छेदिन्या वर्षावासे विधिमाह - ' कप्पड़' इत्यादि ।
सूत्रम् - कप्पइ गणावच्छेइणीए अप्पपंचमाए वासावासं वत्थए || सू० ८ ॥ छाया - कल्पते गणावच्छेदिन्याः आत्मपञ्चमायाः वर्षावासं वस्तुम् ॥ सू० ८ |
भाष्यम्--' कप्पड़' कल्पते 'गणावच्छेइणीए' गणावच्छेदिन्याः 'अप्पपंचमाए' आत्मपञ्चमायाः आत्मना स्वेन सह पञ्चत्वसंख्याविशिष्टायाः 'वासावासं वत्थए' वर्षावासं वर्षा - कालं यावत् वस्तुं वास कर्त्तुम् । यदा खलु गणावच्छेदिनी आत्मपञ्चमा भवेत् तदैव वर्षाकाले वासं कर्त्तुं शक्नोति न तु ततो न्यूना ।
इदमुक्तं भवति - एषु अष्टसु सूत्रेषु प्रथमं सूत्रं प्रवर्त्तिन्या हेमन्तग्रीष्मयोरात्मद्वितीयाया विहरणनिषेधपरकम् १। द्वितीयमात्मतृतीयाया विहरणविधिपरकमिति प्रवर्त्तिनीमधिकृत्य हेमन्त - ग्रीष्मविषयकं सूत्रद्वयम् २ । तृतीयं सूत्रं गणावच्छेदिन्या आत्मतृतीयाया हेमन्तग्रीष्मयोर्विहरणनिषेघपरकम् ३ । चतुर्थं सूत्रमात्मचतुर्थाया विहरणविधिपरकमिति गणावच्छेदिनीमधिकृत्य हेमन्तग्रीष्मविषयकं सूत्रद्वयम् ४ । पञ्चमं सूत्र प्रवर्त्तिन्या आत्मतृतीयायाः वर्षावासनिषेधपरकम् ५ । षष्ठमात्म चतुर्थाया वर्षावासविधिपरकमिति प्रवर्त्तिनीमधिकृत्य वर्षावास विषयकं सूत्रद्वयम् ६ । सप्तमं सूत्रं गणावच्छेदिन्या आत्मचतुर्थाया वर्षावासनिषेधपरकम् ७ । अष्टमं चात्मपञ्चमाया वर्षावासविधिपरकमिति गणावच्छेदिनीमधिकृत्य वर्षावासविषयकं सूत्रद्वयम् ८ । इत्यष्टानां सूत्राणां निष्कर्षः ||