________________
भाष्यम् उ० ४ सू० ३२
चतुर्थीद्देशकसमाप्तिः १२७ ज्झाया' इति बहूनामाचार्याणां बहूनामुपाध्यायानां च यथारानिकमर्यादया विहन्तुं कल्पते ॥ सू० ३१ ॥ एवमेव 'वहवे भिक्खुणो, वहवे गणावच्छेयया वहवे आयरियउवज्झाया' इति बहवो भिक्षकाः, बहवो गणावच्छेदकाः, वहवः आचार्या , वहवः उपाध्यायाश्च, एते सर्वे मिलित्वा एकतो विहरन्ति तदाऽपि तेषां यथोचितां रात्निकमर्यादां लघुज्येष्ठादिरूपां मर्यादा स्वीकृत्यैव विहत्तुं कल्पते नान्यथा । इति सूत्रषट्कस्य भाव इति ॥ सू० ३२ ॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालनतिविरचितायां "व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां चतुर्थ
उद्देशकः समाप्तः ॥४॥