SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०४ सू०१३ मरणासन्नाचार्यानुशाते तत्पश्चात्पददानविधिः ११ ~ वमाणस्स नत्थि केइ छेए वा परिहारे वा, जे साहम्मिया आहाकप्पेणं नो अब्भुट्टाए विहरंति सम्वेसिं तेर्सि तप्पत्तियं छेए वा परिहारे वा ॥ सू० १३ ॥ - छाया-अचार्योपाध्यायो ग्लायन् अन्यतरं वदेत्-आर्य ! मयि खलु कालगते सति अयं समुत्कर्षयितव्यः, स च समुत्कर्षणार्हः समुत्कर्षयितव्यः । स च नो समुत्कर्पणाईः नो समुत्कर्षयितव्यः, अस्ति चाऽत्राऽन्यः कश्चित् समुत्कर्षणाहः समुत्कर्षयितव्यः । नास्ति चावान्यः कश्चित् समुत्कर्षणार्हः स एव च समुत्कर्षयितव्यः। तस्मिश्च खलु समत्कृष्टे परो वदेत् दुस्समुत्कृष्ट ते आर्यः! निक्षिप, तस्य खलु निक्षिपतो नाऽस्ति कश्चित् छेदो वा परिहारो वा, ये साधर्मिका यथाकल्पेन नो अभ्युथाय विहरन्ति सर्वेषां तेषां तत्प्रत्ययिक छेदो वा परिहारो वा ॥ सू० १३ ॥ भाष्यम्--'आयरियउवज्झाए' इत्यादि । 'आयरियउवज्झाए' आचार्यः उपाध्यायो वा 'गिलायमाणे' ग्लायन् धातुक्षोभादिना ग्लानिमुपगच्छन् आसन्नमरणः सन्नित्यर्थः 'अन्नयरं' अन्यतरम् उपाध्याय-प्रवर्तक-स्थविर-गणि-गणधर-गणावच्छेदक-गीतार्थभिक्षूणां मध्यात् यं कमप्येकं गच्छसापेक्षः सन् 'वएज्जा' वदेत्-कथयेत् , कश्चिद्गणनायक आचार्यादिः धातुक्षोभादिनाऽनिष्टादिनिमित्तदर्शनेन वा स्वकीयं कालगमनं संभाव्य गच्छसचालनार्थ गच्छवासिनमे कमपि श्रमणं समाहूय कथयतीत्यर्थः । 'अज्जो' हे आर्य ! 'ममंसि णं कालगयंसि समाणंसि' मयि खलु कालगते मयि मृते सति 'अयं समुक्कसियवे' अयं समुत्कर्षयितव्यः अयं परिदृश्यमानः श्रमणः मत्समीहितः समुत्कर्षयितव्यः आचार्यपदे स्थापनीयो भवद्भिः । ततः कालगते आचार्ये 'से य समुक्कसणारिहे' स च यदि समुत्कर्षणार्हः समुत्कर्षणयोग्यः आचार्यादिपदवीयोग्यः अभ्युद्यतमरणमभ्युद्यतविहारं वा न स्वीकृतो भवेत् तदा स एव 'समुक्कसियवे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयो नान्यः, यदि स वदेत्- अहमभ्युद्यतविहारं जिनकल्पादिकमभ्युद्यतमरणं पादपोपगमनेशितभक्तप्रत्याख्यानरूपं वा प्रतिपत्स्ये इति तदा किं कुर्यात् ? तत्राह-'अस्थि या इत्थ' इत्यादि, 'अस्थि या इत्थ अन्ने केइ समुक्कसणारिहे' अस्ति चाऽत्र गच्छेऽन्यः कोऽपि श्रमणः समुत्कर्षणाई: गणनायकपदवीयोग्य श्रमणसमुदायाभीष्टस्तदा ‘से समुक्कसियव्वे' स समुत्कर्षयितव्य. गणनायकपदे स्थापनीयः । अथ यदि 'नस्थि या इत्थ केइ समुक्कणारिहे' नास्ति चाऽत्र गच्छे. ऽन्यः कोऽपि श्रमणः समुत्कर्षणाई गणनायकपदवीयोग्यः तदा किं कुर्यादित्याह-तदा 'से चेव' स एव योऽभ्युद्यतविहारादिकं स्वीकर्तुकामः स एव सप्रार्थ्य 'समुक्कसियवे' समुत्कर्षयितव्यः गणनायकपदे स्थापनीयः, संप्रार्थना यथा-गीतार्थाः संप्रार्थनापुरस्सरं तं ब्रवते-यूयं गणनायकपदं किश्चित् कालं यावत् स्वीकुरुत, परिपालयन्तश्च भवन्त एकमस्माकं कश्चन श्रमणं गीतार्थ निर्मा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy