________________
भाष्यम् उ० ३ सू० ३-५
त्रिवर्षपर्यायस्योपाध्यायपददानविधिः .८१ कुर्वन्तमन्यमनुमोदयति, उपहितविधि वा करोति तथाहि-यद् यस्य गुरुणा दत्तं तत्तस्योपनयति । तथा अनुपहितविधि वा करोति; तथाहि-यत्पुनर्यस्य दत्तं सोऽन्यस्मै गुरून् अनुज्ञाप्य उपनयंति ददाति, यथा--इदं वस्तुजातं स्थविरैः त्वदर्थ दत्तमिति, एवमुपहितविधिरनुपहितविधिः । पूर्वोक्तगुणयुक्तश्च यो भवेत् स उपग्रहकुशलः 'कथ्यते । 'अक्खयायारे' अक्षताचारः, तत्र न क्षतः खेण्डित आचारो यस्य सोऽक्षताचारः परिपूर्णाचारः, परिपूर्णाचारता च चारित्रे सति भवति, वारित्रवता नियमतः शेषाश्चत्वारोऽपि ज्ञानानाद्याचाराः सेव्याः 'चारित्रवतश्चारित्रं स्यात्' इति
चनात् , ततश्चाऽक्षताचार इत्यस्य चारित्रवानित्यर्थो बोध्यः, यः आधाकर्मादिद्विचत्वारिंशद्दोषरहितस्याऽऽहारस्य ग्रहीता भोक्ता च भवति सोऽक्षताचारः, साध्वाचारस्य परिशुद्धाहारग्रहणमूलकत्वादिति । 'अभिन्नायारे' अभिन्नाचारः, न भिन्नो न खण्डितः केनचिदपि अतिचारविशेषेण वर्जितत्वाद् आचारो ज्ञानाचारादिको यस्य सोऽभिन्नाचारः अखण्डितज्ञानाचारवानित्यर्थः 'असवलायारे' अशबलाचारः शवलदोपवर्जितः । 'असंकिलिहायारे' असंक्लिष्टाचारः, तत्राऽसंक्लिष्ट इहलोकपरलोकाऽऽशंसालक्षणक्लेशरहित आचारो यस्य सोऽसंक्लिष्टाचारः क्रोधादिवर्जनेन संक्लिष्टपरिणामरहित इत्यर्थः । 'बहुस्सुए' बहुश्रुतः बहु-अधिकं श्रुतं शास्त्र यस्य स बहुश्रुतः आचारादिछेदपर्यन्तसूत्रधारकः । 'वभागमे' बह्वागमः-बहुरधिक मागमोऽर्थरूपो यस्य स बहागमः । बहागम इति किम् । तत्राह-'जहन्नेणं आयारपकप्पंधरे' जघन्येनाचारप्रकल्पधरः आचाराङ्गनिशीथाऽध्ययनसूत्रार्थधर इत्यर्थः । जघन्यत आचारप्रकल्पग्रहणाद् उत्कर्षतो द्वादशा- . गधर इति ज्ञातव्यम् । अत्र आचारप्रकल्पधरनिविध -सूत्रतोऽर्थत तदुभयतच, अत्र सूत्रार्थघरत्वमधिकृत्य चतुर्भङ्गी भवति, तथाहि-सूत्रधरो नो अर्थधरः १, नो सूत्रधरः अर्थधरः २, सूत्रधरोऽपि अर्थधरोऽपि ३, नो सूत्रधरो नाप्यर्थधरः ४। एषु चतुर्थो भङ्ग शून्यः, उभयविंकलतया आचारप्रकल्पधारित्वविशेषणासंभवात् । आद्यानां तु त्रयाणां भङ्गानां मध्ये यस्तृतीयभगवर्ती स उपाध्यायत्वेन उद्देष्टुं योग्यः, अस्य सूत्रार्थोभयधारितया गच्छस्य सम्यक्परिवर्धकगुणसंपन्नत्वात् । तदभावे द्वितीयभगवर्त्यपि उपाध्यायत्वेन उद्देष्टुमर्हति तस्यार्थधारित्वेन गच्छपरिवर्द्धकत्वगुणसंभवात. किन्तु प्रथमभङ्गवर्ती नोपाध्यायपदयोग्यः, तस्य सूत्रमात्रधारित्वेन शास्त्रमानभिज्ञत्वात् । एवं दशाकल्पव्यवहारधरादिपदेष्वपि व्याख्यानं कर्त्तव्यमिति । पूर्वोक्तविशेषणविशिष्टः श्रमणो निम्रन्थः 'कप्पइ, उवज्झायत्ताए उद्दिसित्तए' कल्पते उपाध्यायतया उद्देष्टुम् । त्रिवर्षपर्यायादिगुणगणविशिष्टो भिक्षुरुपाध्यायपदे स्थापयितुं युज्यते इत्यर्थः । सू० ३ ॥
अथोपाध्यायपदायोग्यं श्रमणनिम्रन्थ विवृणोति–'सच्चेव ण' इत्यादि ।
सूत्रम्-सच्चेव णं से तिवासपरियाए समणे णिग्गंथे नो आयारकुसले नो संजमकुसले नो पर्यणकुसले नो पन्नत्तिकुसले नो संगहकुसले नो उवग्गहकुसले खया
ध्य, १