________________
चन्द्रातिप्रकाशिका टोका प्रा० १-६सू११ सूर्यस्य प्रथमपण्मासाहोरात्रे क्षेत्रसंचरणम् ७५ राई जोयणसयाई' पञ्चदशोत्तराणि योजनशतानि दशोत्तराणि पञ्चशतयोजनानि (५१०) 'विकंपइत्ता' विकम्प्य 'चारं चरइ' चारं चरति । कथमेतदुपलभ्यते ? इति प्रदर्शयामः-एकैकस्मिन् रात्रिन्दिवे द्वे द्वे योजने तदुपर्यष्टचत्वारिंशद् एकपष्टिभागा योजनस्येत्येतत्प्रमाणं क्षेत्रं सूर्यश्चलति तत्र पूर्व योजनद्वयं व्यशीत्यधिकेन शतेन गुण्यते, जातानि पदषष्टयधिकानि त्रीणि शतानि (३६६) तत्पश्चादष्टचत्वारिंशदेकषष्टिभागा व्यशीत्यधिकेन शतेन गुण्यन्ते, नातास्ते चतुरशीत्यधिकसप्ताशीतिशत (८७८४) संख्यकाः । एषा संख्या योजनानयनार्थमेकषष्टया विभज्यते, लब्धं चतुश्चत्वारिंशदधिकं शतमेकम् (१४४)। एषा संख्या पूर्व या योजनसंख्या (३६६) जाता तस्यां प्रक्षिप्यते, ततो जातानि दशोत्तराणि पञ्चशतानि (५१०) इति । एतावत्प्रमाणं क्षेत्रं सूर्यो विकम्प्य चारं चरति 'तया णं' तदा खल 'उत्तमकट्ठपत्ता' उत्तमकाठाप्राप्ता परमप्रकर्षसपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा सर्वगुर्वीत्यर्थः 'अट्ठारसमुहुत्ता' अष्टादशमुहर्ता 'राई भवइ' रात्रिर्भवति, तथा 'जहण्णए' जघन्यकः सर्वलघुः 'दुवासलमुहुत्ते' द्वादशमुहूर्तः 'दिवसे भवई' दिवसो भवति । अथ प्रथमपण्मासस्य उपसंहारमाह'एस णं' एतत् खलु 'पढमे छम्मासे' प्रथमं पण्मासम्-‘एस णं' एतत् खलु 'पढमस्स छम्मासस्स' प्रथमस्य पण्मासस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रम् ॥सू० ११॥
पूर्व प्रथमपण्मासपर्यन्तभूताहोरात्रिपर्यन्ते सर्ववायमण्डलगतयोजनाष्टचत्वारिंशदेकषष्टिभागयुक्तयोजनदयमतिक्रम्य सूर्यः सर्वबाह्यानन्तरद्वितीयमण्डलसीमायां वर्तते, इति प्रदर्शितम् , साम्प्रतं ततो द्वितीयस्य पण्मासस्य अनन्तरे प्रथमेऽहोरात्रे प्रथमक्षणे सर्ववाह्यानन्तरमभ्यन्तरं द्वितीयं मण्डलं सूर्यः प्रविशतीति प्रदर्शयन्नाह-'से पविसमाणे' इत्यादि। . मूलम् - से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढ़मंसि अहोरत्तसि वाहिराणतरं मंडलं उवसंकमित्ता चारं चरड । ता जया णं सुरिए वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं दो जोयणाई अडयालीसं च एगसहिमागे जोयणस्स एगेण राईदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवई, दोहिं एगसद्विभागमुहुत्तेहि ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुहुत्तेहिं अहिए, से पविसमाणे मूरिए, दोच्चंसि अहोरत्तसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तयाणं पंचजोयणाई पणतीसं च एगस विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता २ चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ चउहि एगसट्ठिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्ते दिवसे मवइ चउहिं एगसद्विभागमुहुत्तेहि अहिए एवं खलु एएणं उवाएणं पविसमाणे सूरिए