SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६४ चन्द्रप्राप्तिसूत्रे उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहत्ततॊ दिवसो भवति, जयन्यिका द्वादशमुहर्ता रात्रिर्भवति । तावत् यदा खल सूर्यः सर्ववाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खल लवणसमुद्र त्रीणि त्रिंशद्योजनशतानि अचगाह्य चार चरति तदा खल उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यकः द्वादशमुहूर्ती दिवसो भवति ॥सूत्र १०॥ प्रथमस्य प्राभृतस्य पञ्चमं प्राभृतमाभृतं समाप्तम् ॥१-५।। व्याख्या-'ता' तावत् 'केवइयं' कियत्कं कियत्प्रमाणं 'ते' तव मते दीयं वा समुई वा' द्वीपं वा समुद्र वा 'ओगाहित्ता' अवगाह्य उल्लङ्घय 'सूरिए' सूर्यः 'चारं चरइ'-चारं चरति एतद्विषये 'आहितेति' किम् आख्यातम् ? इति 'पएज्जा' वदेत् वदतु हे भगवन् ! इति गौतमस्य प्रश्नानन्तरमेतद्विषये भगवान् प्रथमं परमतरूपाः पञ्च प्रतिपत्तीः सामान्यत उपदर्शयतिहे गौतम ! 'तत्थ तत्र सूर्यस्य द्वीपसमुद्रावगाहविषये खलु 'इमाओ' इमाः अनुपदं वक्ष्यमाणाः 'पंच' पश्च पश्च संख्यकाः 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमान्यतारूपाः 'पण्णताओ' प्रज्ञप्ताः कथिताः । ताः काः १ इत्याह-'तं जहा' तद्यथा ता यथा-'एगे एके केचन पश्चसु प्रथमाः परतीर्थिकाः 'एवमाइंसु' एवमाहुः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति-'ता' तावत् प्रथमम् अन्यबहुवक्तव्यतासु प्रथम श्रूयताम्-'एगं जोयणसहस्सं' एक योजनसहस्रम् एकसहस्रयोजनानि 'एगं च तेत्तीसं जोयणसयं एक च त्रयस्त्रिंशत् योजनशतम् एकं शतं योजनानां तदुपरि त्रयस्त्रिंशच्च योजनानि त्रयस्त्रिंशदधिकैकशतोत्तरैकसहस्रं (११३३) योजनानीत्यर्थः, एतावत्प्रमाणं 'दीवं वा समुदं चा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'रिए' सूर्यः 'चारं चरई' चारं चरति, उपसंहरन्नाह-'एगे' एके केचन प्रथमाः परतीर्थिकाः 'एवं' एवं-पूर्वोक्तप्रकारेण 'आइंसु' आहुः कथयन्तीति प्रथमा प्रतिपत्तिः १। अथ द्वितीयामाह-'एगे पुण' एके केचन प्रथमतोऽन्ये द्वितीयाः पुनः 'एवमासु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति-'ता' तावत् 'एगं जोयणसहस्सं 'एगं चउतीसं जोयणसयं एक योजनसहनमेकं चतुस्त्रिंशत् योजनशतं चतुस्त्रिंशदधिकैकशतोत्तरैकसहस्रं (११३४) योजानानि 'दीवं वा समुदं वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'मूरिए' सूर्यः 'चारं चरई' चारं चरति, उपसंहारमाह-'एगे एवमासु' एके पूर्वोक्ता द्वितीयाः एवं पूर्वोक्तप्रकारेण आहुः । इति द्वितीया प्रतिपत्तिः २। अथ तृतीयामाह-'एगे' एके केचन पूर्वोक्कद्वयादन्ये तृतीया परतीर्थिकाः 'एवमाहंमु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति-'ता' तावत् 'एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं' एकं योजनसहस्रम् एकं च पश्चत्रिंशद् योजनशतम्-पश्चत्रिंशदधिकशतोत्तरकसहनं (११३५) योजनानि 'दीवं वा समुई वा द्वीपं वा समुद्रं वा 'ओगा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy