SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे योजनस्य एतावत्प्रमाणाद्वयोः सूर्ययोरन्तरे वृद्धिर्हानिर्वा अग्रेऽग्रे प्रत्येकस्मिन्नहोरात्रे भवतीति सर्वत्रभावनीयम् । एवं श्रुत्वा भगवान् गौतम पुनः पृच्छति - 'तत्थ णं' इत्यादि । 'तत्थ णं' तत्र तस्यां भवत्प्रदर्शितव्यवस्थायां खलु हे भदन्त ! 'को हे उ' को हेतुः किं कारणं, तदवगमेका उपपत्ति 'त्ति' इति 'वएज्जा' वदेत्, प्रसादं कृत्वा कथयतु हे भगवनिति । एवं गौतमेन पृष्टे भगवान् पूर्वोक्त विषयं स्पष्टयति- 'ता अयण्णं' इत्यादि । 'ता' तावत् प्रथमं जम्बूद्वीपपरिमाणं श्रूयताम् 'अयणं' अयं प्रत्यक्ष दृश्यमानः खलु 'जंबुदीवो दीवो' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः 'जान' यावत् - यावत्पदेन पूर्वप्रदर्शितं सर्वमपि जम्बूद्वीपपरिमाण प्रतिपादकं वाक्यमत्रापि भावनीयम् । 'परिक्खेवेणं' परिक्षेपेण अयं पूर्वप्रदर्शितपरिमाणेन परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । 'ता' तावत् 'जयाणं' यदा खल्लु 'एते दुवे सूरिया' एतौ द्वौ सूर्ये 'सम्बन्धंतर मंडल' सर्वाम्यन्तरमण्डमं 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरंति' चारं चरतः 'तया णं' तदा खलु 'णवणउई जोयणसहस्साई' नवनवति योजनसहस्त्राणि नवनवति सहस्रसंख्यकानि योजनानि तदुपरि 'छच्च' षट् ' चत्ताले' चत्वारिंशत् 'जोयणसयाई' योजनशतानि चत्वारिंशदधिक षट् शतसंख्याकानि ( ९९६४० ) योजनानि 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कट्टु' अन्तरं कृत्वा 'सूरिया' सूर्यै 'चारं चरंति' चारं चरतः अतएव ' तया णं तदा खलु 'उत्तमकट्टपत्ते उत्तमकाष्ठा प्राप्तः परमप्रकर्पप्राप्तः 'उक्कोसए' उत्कर्षकः ततः परमुत्कर्षाभावात् 'अट्ठारसमुहुत्ते' अष्टादशमुहूर्त्तः षट् त्रिंशद् घटिकायुक्तः 'दिवसे भवई' दिवसो भवति 'जहणिया ' जधन्यिका सर्वलध्वी ततः परं लाघवाभावात् 'दुवालसमुहुत्ता' द्वादशमुहर्त्ता द्वादशमुहूर्त्तवती चतुर्विंशति घटिका युक्ता 'राई भव' रात्रिर्भवति । अत्राह - सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परं 'णवणउई जोयणसहस्साईं' इत्यादि कथितप्रमाणकमन्तरे कथमुपलभ्यते । इति चेदाह - इह जम्बूद्वीपो द्वीपः आयाम विष्कम्भाभ्यामेकलक्ष योजनप्रमाणः ( १००००० ) तत्रैकः सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिकमेकं शतं योजनानि समवगाह्य सर्वाभ्यन्तरमण्डले 'चारं चरति ' एवं द्वितीयोऽपि अशीत्यधिकमेकं शतं योजनानां समवगाह्य चारं चरति अशीत्यधिकं शतमेकं द्वाभ्यां गुणितं द्वयोः सूर्ययोः संमिलितं जातं षष्ट्यधिकं शतत्रयम् (३६०) एतत् जम्बूद्वीपस्य लक्षयोजनप्रमाणादपनीयते तत आगतं पूर्वोक्तमन्तरपरिमाणं चत्वारिंशदधिक षट्शत्तोत्तरनवनवति सहस्रयोजनरूपम् (९९६४० ) । तथा च कोष्ठकम् - ५४ 7 जम्बूद्वीपप्रमाणम् - १००००० लक्षमेकम् एष अपनेय राशिः सूर्य दयावगाह्यक्षेत्रम् ३६० - षष्ट्यधिकं शतत्रयम् एष अपनयन सूर्ययान्तरक्षेत्रम् - ९९६४० - चत्वारिंशदधिक षट् शतोत्तरनवनवति सहस्त्रराशिः संख्यकम् एष अपनीत राशिः सूर्यः द्वयान्तरम् ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy