________________
५२
चन्द्रप्रशप्तिसूत्रे शतसहस्त्रं पट्र च पष्टि' योजनशतानि अन्योन्यस्य अंतरं कृत्वा चारं चरत तदा खलु उत्तमकाप्टाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यक' द्वादशमहत्तौ दिवसो भवति । एतत् स्खलु प्रथमं पण्मासम् । एतत् खलु प्रथमस्य पण्मास्य पर्यवसानम् ॥सू० ८॥ ___ व्याख्या 'ता' तावत् ते तव ते केवइयं कियत्कं 'एए' एतौ भारतैरवतसम्बन्धिनौ 'दुवे सरिया' द्वौ सूर्याजम्बूद्वीपगतौ 'अण्णमण्णस्स' भन्योन्यस्य परस्परस्य 'अंतरं अन्तरं 'कट्ट' कृत्वा 'चारचरंति' चारंचरतः इति 'आहितं' आख्यातम् 'त्ति' इति 'वदेज्जा' वदेत् वदतु हे भगवन् ।। अथ भगवान् अस्मिन् विषये अन्यतैर्थि कमतरुपाः षट्र प्रतिपत्तीः प्रदर्शयति-तत्थ खल्लु' इत्यादि, 'तत्थ खल' तत्र खलु तस्मिन् चास्यान्तरविषये 'इमाओ' इमाः वक्ष्यमाणस्वरुपाः 'छ' पट्ट 'पडिवत्तीओ' प्रतिपत्तयः परमतमान्यताविषयाः 'पण्णत्ताओ' प्रज्ञप्ताः पूर्वतीर्थकरगणधरैः ता एव प्रदर्शयति-'तत्थ एगे' इत्यादि । 'तत्थ' तत्र तत्तत्प्रतिपत्तिप्ररुपकाणां मध्ये 'एगे' एके केचन प्रथमाः 'एवं वक्ष्यमाणप्रकारेण 'आइंसु' आहुः स्व शिष्यान् परान् वा प्रतिकथयन्ति, तदेव दर्शयति-'ता' तावत् 'एगं जोयणसहस्स' एकं योजनसहस्त्रं सहस्त्रयोजनं 'च' तथा 'एगं तेत्तीसं जोयणसयं' एकं त्रयस्त्रिंशत् योजनशतं त्रयस्त्रिशदधिकैकशतसंख्यकं (११३३) 'अण्णमण्णस्य' अन्योन्यस्य अंतरं कटु' अन्तरं व्यवधानं कृत्वा जम्बूद्वीपे 'सरिया' सूर्यो दो सूर्यो 'चारं चरंति' चारं चरतः, उपसंहारमाह 'एग्गे एवमासु' एके एवमाहुः एके केचन एवं पूर्वोक्त प्रकारेण कथयन्ति । इति प्रथमा प्रतिपत्तिः १। अथ द्वितीयामाह'एगे पुण एवमाहंसु' एके पुनरेवमाहुः अर्थः पूर्वोक्तवद् भावनीयः, एवं सर्वत्रापिभावना कार्यो । 'ता' तावत् 'एगं जोयणसहस्सं' एक योजनसहस्त्रं तदुपरि 'एगं उत्तीसं जोयणसयं' एक चतुस्त्रिंशदयोजनशतं चतुस्त्रिंशदधिकं शतमेकं योजनानां (११३४) 'अण्णमण्णस्स अंतरं कटु' अन्योन्यस्यान्तरं कृत्वा 'सूरिया' सूर्यो 'चारं चरंति' चारं चरतः । पूर्वोक्तप्रकारेण एगे एवमासु एवं एक्माहुः इति द्वितीयां प्रतिपत्तिः । अथ तृतीयामाह-एगे पुण एवमाहंमु' एके पुनरेवमाहुः-'ता' तावत् 'एगं जोयणसहस्सं' एकं योजनसहस्त्रं 'एगं च पणतीसं जोयणसय' एकं च पञ्चत्रिंशद् योजनशतं पञ्चत्रिंशदधिकैकशतं (११३५) 'अण्णमण्णस्स अंतरं कटु' अन्योन्यस्यान्तरं कृत्वा 'सूरिया' द्वौ सूर्यो 'चारं चरंति' चारं चरतः । एगे एवमाहंसु' एके एवमाहुः । इति तृतीया प्रतिप्रत्तिः ३॥ अथ चतुर्थी माह 'ता' तावत् ‘एगे पुण एवमाइंसु' एकेपुनरेवममाहुः-एगं दीवं एगं समुई' एक द्वीपमेकं समुद्रं 'अण्णमण्णस्स अंतरं कट्ट' परस्परस्य अन्तरं कृत्वा 'मरिया' सूयौँ 'चारं चरंति' चारं चरतः 'एगे एवमाहंसु' एके एवमाहुः इति चतुर्थी प्रतिपत्तिः ४॥ अथ पञ्चमीमाह-'ता' तावत् 'एगे पुण एवमाइंस' एके पुनरेवमाहुः 'ता' तावत् 'दो दीवे' दो समुद्दे' द्वौ द्वीपौ द्वौ समुद्रौ