________________
चन्द्रशतिप्रकाशिका टीका० प्रा०२० सू. २
राहुवक्तव्यता ६९९
पत्ती मिध्यारूपे, तन्निराकरणार्थ भगवान् स्वमतं प्रदर्शयति-'वयं 'पुण' इत्यादि । 'वयं पुण' वयं तु 'एवं क्यामो' एवं-वक्ष्यमाणप्रकारेण वदामः-कथयामः । तदेव श्रीवीतराग भगवन्स्वमतं प्रदर्श्यते 'ता राहणं' इत्यादि, 'ता' तावत् 'राहू णं' राहुः खलु न प्रथमप्रतिपत्तिवादिप्रदर्शित स्वरूपो देवः, न च द्वितीयप्रतिपत्तिवादिप्रदर्शितं कृष्णपुद्गलमात्रम्। किन्तु 'देवे' स देवोऽस्ति वन्यमाणस्वरूपः, तत्स्वरूपमाह-'महिड्ढिए" इत्यादि, 'महिढिए' महर्द्धिकः 'जाव महाणुभावे' इति महायुतिकः महायशाः महाबलः, महासौख्यः महानुभावश्च, अर्थः पूर्वमेव गतः पुनश्चः-'वरवत्थधरे' इत्यादि, वरवस्त्रधरः, वरमाल्यधरः, वराभरणधारी, अर्थः पूर्ववदेव राहुरेतादृशो देवो वर्तते । अस्य नामान्याह--'राहुस्स गं' इत्यादि, 'राहुस्स णं देवस्स' राहोः खलु देवस्य राहुदेवस्य 'णव णामधेज्जा' नव नामधेयानि प्रज्ञप्तानि, तद्यथा 'सिंघाडए' इत्यादि, शृङ्गाटकः १, जटिलकः २, खरकः ३, क्षतकः ४, दर्दुरः ५, मकरः ६, मत्स्यः ७, कच्छपः ८, कृष्णसर्पः ९, इति । अस्य विमानानां' वर्णमाह-'ता राहुरसणं' इत्यादि, 'ता' तावत् 'राहुस्स णं देवस्स' राहु देवस्य खलु विमानानि पञ्च भवन्ति, तानि पृथक् पृथग् वर्णयुक्तानि सन्ति, तदेवाह-'विमाणा पंचवण्ण' पञ्च विमानानि पञ्च वर्णानि प्रज्ञप्तानि तद्यथा-'किण्हा' इत्यादि, कृष्णानि १, नीलानि २, लोहितानि ३, हारिद्राणि ४, शुक्लानि ५। विमानानां कालादिवर्णा किं प्रकारका' भवन्तीति प्रदर्शयति 'अस्थि कालाए' इत्यादि, कालकं राहुविमानम् 'खंजणवण्णाभे' स्वञ्जनवर्णाभम्, खञ्जनं-दीपमल्लिकामलः, शकटाक्षमलश्च, तत्सदृशं कालवणे विमानम् १, नीलं राहुविमानम् 'अलाउयवण्णाभ' अलाबु -आईतुम्बं तत्सदृशवर्णयुक्तम् २, 'लोहितं' राहुविमानं 'मंजिट्ठावण्णाभं' मंजिष्ठावर्णाभं मंजिष्ठा-औपषिविशेषः तद्वद्रक्तवर्णयुक्तम् ३, हारिद्रपीतवर्ण-राहुविमान 'हरिदावण्णाभे' हरिद्रावर्णाभं हरिद्रावर्णवत् पीतवर्णम् ४, शुक्कं राहुविमानं भासरासिवण्णाभे' भस्मराशिवर्णाभं रक्षा पुजवत् श्वेतवर्णयुक्तम् ५। चन्द्रसूर्ययोः । राहुंकृतावरण ‘तन्मोचनविषयक-दिग्विभागान् प्रदर्शति-ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु 'राहुदेवे'. राहुदेवः 'आगच्छमाणेवा' कुतश्चित्स्थानादागच्छन् वा 'गच्छमाणे वा' कापि' स्थाने गच्छन् वा, 'विकुव्वेमाणेवा' स्वेच्छया तां तां विकुर्वणां।' 'कुर्वन्। वा 'परियारेमाणे वा' परिचारण बुद्धया इतस्ततो गच्छन् वा चन्द्रस्य वा सूर्यस्य वा ''लेस्सं लेश्यां विमानगतधवलिमारूपाम' 'पुरथिमेणं आवरित्ता' पौरस्त्येन' पूर्वदिग्भागेन अग्रभागेनेत्यर्थः, आहृत्य पच्चत्थिमेणं' पाश्चात्येन पश्चिमदिग्भागेन पश्चाद्भागेनेत्यर्थः 'वीईवेयइ' व्यतिव्रजति-व्यतिक्रामति 'तया ण' तदा तस्मिन् समये खल 'पुरस्थिमेणं' पौरस्त्येन-पूर्वभागेन चन्द्रो वा सूर्यों वा स्वात्मानम् 'उवदंसेइ' उपदर्शयति चन्द्रः सूर्योवा · प्रकटो भवतीति भावः 'पच्चत्थिमेणं राहू' पाश्चात्येन पश्चिमभागेन राहु रुपलब्धो भवति, अयं भावः तस्मिन् समथे-मोक्षकाले चन्द्रः