________________
चन्द्राप्तिसूत्रे योर्मध्ये एकः सूर्यो वर्त्तते, द्वयोः सूर्ययोर्मध्ये एक श्चन्द्रो वर्तते ततश्चन्द्रसूर्ययोः परस्परमन्तरं पञ्चाशद् योजनसहस्राणि ततश्चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य परस्परं लक्षयोजनपरिमित मन्तरं भवति, एकस्मात् सूर्यात् द्वितीयः सूर्यो लक्षयोजनव्यवधानेन व्यवस्थितः, एवमेकस्मा
चन्द्राद् द्वितीयश्चन्द्रोऽपि लक्षयोजनव्यवघानेन व्यवस्थित इति ॥३७॥ तदेवाह-सूत्रकार 'सूरतरिया चंदा' इत्यादि स्पष्टम् पूर्व व्याख्यातत्त्वात्, नवर कथम्भूतास्ते चन्द्रसूर्याः १ तबाह 'चित्तरलेसागा' चित्रान्तरलेश्याकाः चन्द्रसूर्याः परस्परमन्तरिताः सन्तः चित्रलेश्याकाः भिन्नभिन्नलेश्यावन्तः चन्द्राणां शीतरश्मिकत्वात् सूर्याणां चोष्णरश्मिकत्वात् । लेश्याविशेष प्रदर्शयन्नाह- 'मुहलेस्सा मंदळेस्साय' सुखलेश्यामन्दलेश्याश्च, तत्र चन्द्राः सुखलेश्याः सुखदलेश्यावन्तः न हि मनुष्यक्षेत्रस्थितचन्द्रवत् शीतकालेऽत्यन्तशीतरश्मयः सन्ति, एवं सूर्याः मन्दलेश्याः, न हि मनुप्यक्षेत्रस्थितसूर्यवत् ग्रोप्मकाले एकान्तोष्णरश्मयः किन्तु साधारण तेजसः सन्ति ॥३८॥ इह पूर्वमुक्तम्-यत्र द्वीपे समुद्रवा ग्रहादिपरिमाणं ज्ञातुमिच्छेत् तदा एकशशिपरिवारभूत ग्रहादि परिमाणं तत्तद्वीपममुद्रगतसख्यया गुणयितव्यमिति, तत एकशशिपरिवारभूतानां ग्रहादीना संख्यामाह-'अट्ठासीईगहा' इत्यादि गाथाद्वयं पाठसिद्ध तथापि स्पष्टीक्रियते--- एकस्य शशिनः परिवारभूता ग्रहा अष्टाशीति (८८), नक्षत्राणि अष्टा विंशतिः (२८) ताराश्च कोटी कोटीनां पट् पष्टिः सहस्राणि, नवशानि पञ्चसप्तप्रत्यधिकानि (६६९७५) एतावान्'एगससीपरिवारो तारागण कोडिकोड़ीण' एकशशिपरिवारः पूर्व प्रदर्शित-संख्यकः तारागणकोटीकोटीनां प्रोक्तः ॥३९॥४०॥ इत्येतत्पर्यन्तं जीवाभिगमातिदेशेन प्रोकस्य यावच्छब्दग्राह्यस्य पाठस्य व्याख्या ।।सु०॥१॥
इहान्यान्यपि सूत्राणि प्रविरलपुस्तकेषु दृश्यन्ते, न सर्वेषु पुस्तकेषु तत स्तान्यपि उपयोगित्वाद विनेयजनानुग्रहाय प्रदान्ते 'अंतो मणुस्सखेत्ते' इत्यादि ।
मूलम्-तामणुस्सखेते जे चंदिमसरिय गहगण णक्खत्तताराख्वा तेणं देवा कि उड्ढोववन्नगा कप्पोववन्नगा विमाणोववण्णगा चारोववण्णगा, चारहिइया गइसमावण्णगा । ता ते ण देवा णो उड्ढोववण्णगा, नो कप्पोववण्णगां, विमाणोववण्णगा,, चारोववण्णगा, नो चारहिइया, गइरइया गइसमावण्णगा, उड्ढमुहकलंघुयपुप्पसंठाणसंठिएहिं जोयण साहस्सिएहि तावक्खेत्तेहिं साहस्सियाहि वाहिराहिय वेउन्चियाहिं परिसाहिं महयाहय णट्टगीयवाइयत्तीतलतालतुडियघणमुइंगपडुप्पवाइ य रवेणं महया उक्किठिसीहनाद बोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमंडलचारं मेरुं अणुपरियति । ता तेसि णं देवाणं जाहे इंदे चयइ से कहमियाणि पकरेंति ? ता चत्तारि पंच सामाणिय देवा तं ठाणं उपसंपज्जिताणं विहरंति . जाव : अण्णे इत्थ इंदे उववण्णे- भवइ । ता