________________
चन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सूर चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७५ जिनानाम्-अतीतानागतवर्तमानकालभाविनां सर्वेषां जिनानामाज्ञाऽस्तीति भावनीयमिति । यद्येवं न कुर्यात् तदा अशुभद्रव्य क्षेत्रादि सामग्री प्राप्य कदाचिद शुभवेद्यानि कर्माणि, विपाकमवलम्ब्य उदयमासादयेयुः, तढदये च सती गृहीतवतेषु तद्भङ्गादि दोष प्रसङ्गः स्यात् । शुभ तिथिनक्षत्रमुह दिबलेन च शुभद्रव्यक्षेत्रादि सामग्रीलाभो भवेत् तेन तथाविधसामय्यां तु प्रायोऽशुभ कर्मविपाकस्य न संभव इति प्रवज्यादि ग्राहकस्य , निविघ्नं सामायिकपरिपालनादि भवेत्तस्माद् अवश्यं छमस्येन सर्वत्र शुभक्षेत्रादौ शुभतिथिनक्षत्रमुहूर्तादि ग्रहणाय यतितव्य मिति गाथा भावार्थः अत्र केचिदाशमन्ते-यद्येवं तहिं यदर्हन्तो भगवन्तः ,शुभतिथिनक्षत्रमुहूर्तादिकमनपेक्ष्येव व्रतानि गृहन्ति कथं तेषां व्रतादिपालनं भवति ? तथा न च तेषां समीपे प्रव्रज्याथै समुपस्थितेषु ते भगवन्तो जगत्स्वामिनः शुभतिथिनक्षत्रमुहर्तादि निरीक्षणं कृतवन्तः प्रत्युत कथितवन्तः, 'जहासुई देवाणुप्पिया मा पडिवंचं करेह' यथासुखं देवानुप्रिय मा प्रतिबन्धं कुरु, इति श्रूयते ? अत्राहते तु भगवन्तोऽर्हन्तोऽतिशयिनो भवेयुस्ततस्ते, स्वातिशयवलादेव सविध्नं निर्विघ्नं वा समधिगच्छन्ति, न ते स्व प्रव्रज्या, ममुपस्थितानां प्रव्रज्यादाने , च शुभ तिथिनक्षत्रमुहूदिक मपेक्षन्ते तेषां तथाविधातिशयसामर्थ्यवत्त्वात् , इति न तन्मार्गानुसरणं छवास्थानां न्याय्यम् । ये चैवं शन्ते ते परममुनिपर्युपासितवचनविडम्बका अपरिमथितजिनशासना गुरुपरम्परागतनिरवद्यविशद-, कालोचितसमाचारी परिपन्थिन. स्वच्छन्दमतिपरिकल्पितसामाचारीका विज्ञेयाः, तेषां यत्कथनम्'प्रवाजनादि धार्मिकशुभकार्येषु न शुभतिथिनक्षत्रमुहर्तादि किमपि निरीक्षणीयम्, 'यदा विरज्येत तदा प्रव्रज्येत' यदा वैराग्य समुत्यद्यते तदैव प्रव्रज्यां गृह्णीयात् इर्ति, तदसत्, मिथ्यात्वविजृम्भितं च तथाविजिनाज्ञासद्भावात् 'आणाधम्मो' इति जिनशासनस्य मौलिकनियमसद्भावाच्चेति ॥२१॥ साम्प्रतं सूर्यचन्द्राणां तापक्षेत्रमाह-'तेसिं पविसंताणं' इत्यादि, 'तेसिं' तेषां सूर्यचन्द्राणां 'पविसंताणं' प्रविशतां सर्वबाह्यमण्डलातू सर्वाभ्यन्तरमन्डले प्रवेशं कुर्वतां तदभिमुखं गच्छतामित्यर्थः 'तावक्खेत्तं तु' तापक्षेत्रं सूर्यस्य, प्रकाशक्षेत्रं च चन्द्रस्य 'निययं नियत मायामतः प्रतिदिन 'वड्ढए' वर्द्धते । 'तेणेव कमेण' तेनैव वर्द्धनक्रमेण 'निक्खमंताणं' निष्क्रमतां सर्वाभ्यन्तर मण्डलात् सर्वबाह्यमण्डलाभिमुख गच्छतां पुनः 'परिहायइ' प्रतिहीयते प्रतिदिनं परि क्षीयते तापक्षेत्रं प्रकाशक्षेत्रं चाल्पमल्पं भवतीत्यर्थः । तथाहि-सर्वेबाह्ये मण्डले चारं चरतां सूर्या चन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य -दशधा विभक्तस्य द्वौ दो भागो तापक्षेत्रं भवति, सूर्यस्य सर्वाभ्यन्तरमण्डलं प्रति गच्छतः प्रतिमण्डलं पष्टयधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागो तापक्षेत्रस्य वर्द्धते, चन्द्रस्य तु मण्डलेपु, प्रत्येकं पौर्णमासी सभवे । क्रमेण प्रतिमण्डलं पइविंशतिः पइविंशति र्भागाः , परिपूर्णाः सप्तविंशतितमस्य च एकः सप्त भाग इति वर्द्धते. एवं च क्रमेण प्रतिमण्डलमभिवृद्धी, यदा सर्वाभ्यन्तरे, मण्डले चार चरतस्तदा प्रत्येकं जम्बू द्वीपचक्रवालस्य त्रयः परिपूर्णा दश भागास्तापक्षेत्रं भवति, ततः-पुनरपि सर्वाभ्यन्तरान्मण्डला(हि.