________________
चन्द्रप्रशप्तिसूत्रे -भारतः सूर्यः 'परस्स चेव' परस्यैव ऐरवतसूर्यस्यैव द्वारा 'चिण्णाई' चीर्णानि 'पडिचरइ' प्रतिचरति । एकस्मिन् भागे द्विनवतिरेकस्मिन् भागे च एकनवतिरित्यत्रापि भावनीयम् | इत्थं च भारतः सूर्यो दक्षिणपौरस्त्ये भागे - द्विनवतिसंख्यकानि, उत्तरपाश्चात्ये भागे च एकनवति संख्यकानि स्वयं चीर्णानि प्रतिचरति, उत्तरपौरस्त्ये भागे द्विनवतिसंख्यकानि दक्षिणपाश्चात्ये भागे च एकनवतिसंख्यकानि परचीर्णानि ऐवतसूर्यचीर्णानि प्रतिचरतीतिभावः । साम्प्रतमैरवतसूर्यविषयं प्रतिपादयति-'तत्थ' तत्र जम्बूद्वीपमध्ये 'अयं अयं प्रत्यक्षतउपलभ्यमानः जम्बूद्वीपसम्बन्धी ‘एरवए सूरिए' ऐरवतक्षेत्रप्रकाशकारित्वात् ऐरवतः सूर्यः 'जंबुद्दीवस्स दीवस्स' जम्बूद्वीपस्य द्वीपस्य पाइणपडीणाययाए प्राचीप्रतीच्यायतया पूर्वपश्चिमदीधया 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया उत्तरदक्षिणदीर्घया 'जीवाए' जीवया 'मंडलं' मण्डलं चतुर्भिवक्तिं तत्तन्मण्डलं 'चउवीसएणं सरणं' चतुर्विशकेन शतेन चतुर्विशत्यधिकैकशतेन 'छेत्ता' छित्त्वा 'उत्तरपच्चथिमिल्लसि' उत्तरपाश्चात्ये भागे 'चउमाग मंडलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्थे भागे 'वाणउई-द्विनवति द्विनवतिसंख्य कानि 'मरियमयाई' सूर्यमतानि-ऐरवतसूर्येणैवमतानि मतीकृतानि 'जाई' यानि 'सरिए' सूयः ऐरवतसूर्यः 'अण्पणा चेव' आत्मनैव स्वयं 'चिण्णाई' चीर्णानि 'पडिचरई' प्रतिचरति, तथा 'दाहिणपुरथिमिल्लसि' दक्षिणपौरस्त्ये भागे 'चउन्भागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्थभागे एकाणउई' एकनवति एकनवतिसख्यकानि सूरियमयाई' सूर्यमतानि ऐरवतसूर्येगैव मतानि 'जाई' यानि सरिए सूर्यः ऐरक्तसूर्यः 'अण्पणाचेव' आत्मनैव स्वयं 'चिण्णाई' चीर्णानि 'पडिचरई' प्रतिचरति । 'तत्थ णं' तत्र खलु जम्बूद्वीपे 'अयं' अयं पूर्वप्रदर्शितः 'एरवए सरिए' ऐरवतः सूर्यः' जंबूद्दीवस्स दीवस्स' जम्बूद्वीपस्य जम्बूद्वीपनामकस्य द्वीपस्य 'पाईणपडि गाययाए प्राचीप्रतीच्यायतया पूर्वपश्चिमदीर्घया 'उदिणदाहिणाययाए' उदीची दक्षिणायतया उत्तरदक्षिणदीर्घया जीवया 'मंडलं' मण्डलं तत्तन्मण्डलं'चउचीसएणं सएणं' चतुर्विशत्यधिकेन शतेन छित्ता' छित्वा विभज्य 'दाहिणपच्चस्थिमिल्लंसि' दक्षिणपाश्चात्ये भागे 'चउभागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्मागे 'भारहस्स सूरियस्स' भारतस्य सूर्यस्य भारतसूर्यसम्बन्धीनि 'वाणउई द्वानवति द्वानवतिसंख्यकानि 'सूरियमयाई सूर्यमतानि भारत सूर्यमतानि 'जाई' यानि 'मूरिए' सूर्यः ऐरवतः सूर्यः 'परस्स' परस्य भारतसूर्यस्य द्वारा 'चिण्णाई' चीर्णानि पडिचरइ' प्रतिचरति, तथा 'उत्तरपुरस्थिमिल्लसि' उत्तरपौरस्त्ये भागे 'चउभागमंडलंसि' चतुर्भागमण्डले मण्डलचतुर्थभागे तस्यैव भारतम्यस्य एकाणउई" एकनवति एकनवतिसंख्यकानि 'सरियमयाई' सूर्यमतानि भारतसूर्यप्रतिसेवितानि 'जाई' यानि 'सरिए सूर्यः ऐरवतसूर्यः 'परस्स चेव' परस्यैव द्वारा चिण्णाई'चीर्णानि 'पडिचरई' प्रतिचरति । अयं भावः-ऐरवतः सूर्यः उत्तरपश्चिमे भागे द्वोनवतिसंख्यकानि मण्डलानि, दक्षिणपूर्वे