________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा०१-३ सू०७
सूर्यपरिभमणविचारः ४७ सर्वाभ्यन्तरमण्डलान्निष्क्रमणकाले मतानि, एतदेव स्पष्टयति- 'नाई अप्पणा चेव' यानि-आत्मनैव स्वयं पूर्व चिण्णाई' चीर्णानि तानि 'सूरिए'सूर्यः भारतः सूर्यः 'पडिचरई' प्रतिचरति । अत्र चतुरशीत्यधिकशतसंख्यकेपु सर्वेषु मण्डलेषु सर्वबाह्यमण्डलात् शेषाणि त्र्यशीत्यधिकशतसंख्यकानि मण्डलानि सन्ति, तानि च प्रत्येक द्वितीयषण्मासमध्ये द्वाभ्यामपि सूर्याभ्यां परिभ्रम्यन्ते, अर्थात् द्वितीयपण्मासे तेषां ज्यशीत्यधिकशतसंख्यकमण्डलानां मध्ये एकस्मिन् एकस्मिन् मण्डले द्वावपि सूर्यों परिभ्रमतः । सर्वेष्वपि दिग्विभागेपु प्रत्येकस्मिन् दिग्विभागे एकस्मिन् मण्डले एक एव सूर्यः परिभ्रमति, द्वितीये तु अपरः सूर्यः । एवं सर्वान्तिममण्डलपर्यन्तमपि परिभावनीयम् । तत्र द्वितीयपण्मासे दक्षिणपौरस्त्ये दिगविभागे भारतः सूर्यो द्विनवतिसंख्यकानि मण्डलानि परिभ्रमति, ऐरवना सूर्यएकनवतिसंख्यकानि मण्डलानि परिभ्रमति । उत्तरपाश्चात्ये दिगविभागे च ऐरवतः सूर्यो विनवतिसंख्यकानि मण्डलानि परिभ्रमति भारतः सूर्यश्च-एकनवतिसंख्यकानि मण्डलानि परिभ्रमति । एवं व्यशीत्यधिकशतसंख्यकेपु सर्वेष्वपि मण्डलेषु द्वयोः सूर्ययोः परिभ्रमणं भवतीति । एतच्च पट्टिकादौ मण्डलानि विलिख्य परिभावनीयम् । अतएवोक्तम्-दक्षिणपोरस्ये हिनवतिसंख्यकानि मण्डलानि, उत्तरपाश्चात्ये च एकनवतिसंख्यकानि मण्डलानि भारतः सूर्यः स्वयं पूर्व चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वचीर्णप्रतिचरणपरिमाणं प्रदर्शितम् अथ च तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणं प्रदर्शयति'तत्थ णं अयं भारहें' इत्यादि । 'तत्थ' तत्र मध्यजम्बूद्वीपे 'अयं' अयं प्रस्तुत प्रकरणोल्लि खितो जम्बूद्वीपसम्बन्धीभरतक्षेत्रप्रकाशकारित्वाद् भारतः सूर्यः 'जंबुद्दीवस्स दीवस्स' जंबू. द्वीपस्य द्वीपस्य 'पाईणपडीणाययाए प्राचीप्रतीच्यायतया पूर्वपश्चिमदीर्घया, तथा 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया उत्तरदक्षिणदीर्घया 'जीवाए' जीवया जीवासादृश्यात जीवा तया दवरिकयेत्यर्थः 'मंडलं' मण्डलं चतुर्भिविभक्तं तत्तन्मण्डलं 'चउवीसएणं सएणं' चतुर्विशतिकेन चतुर्विशत्यधिकेन शतेन शतभागेन 'छेत्ता' छित्वा-हृत्वा 'उत्तरपुरथिमिल्लंसि' उत्तरपौरस्त्य उत्तरपूर्वदिग् विभागे ईशानकोणे इत्यर्थः 'चउभागमंडलंसि' चतुर्भागमण्डले मण्डलस्ये चतुर्थे भागे तेषामेव द्वितीयानां पण्णां मासानां मध्ये 'एरवयस्स सूरियस्स', ऐरवतस्य सूर्यस्य 'वाणउई' द्वानवति द्विनवतिसंख्यकानि 'सूरियमयाई र्यमतानि ऐरवतसूर्येण पूर्व निष्क्रमणकाले मतानि मती कृतानि-जाई' यानि 'सरिए' सूर्यः भारतः सूर्यः 'परस्स चिण्णाई' परस्य ऐरवतस्य सूर्यस्य द्वारा चिण्णाई' चीर्णानि निष्क्रमणकाले तानि 'पडिचरइ' प्रतिचरति, तथा 'दाहिणपच्चत्थिमिल्लंसि' दक्षिणपाश्चात्ये नैऋतकोणे च 'चउभागमडलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्थे भागे 'एक्काणउई' एकनवति एकनवति संख्यकानि 'सूरियमयाई सूर्यमतानि एरवतसूर्यमतानि ऐरवतसूर्यसम्बन्धीनि 'जाई' यानि 'मरिए' सूर्यः