________________
६६६
चन्द्र सूत्रे पृच्छा । भगवानाह - - ' ता धायईसंडेणं' इत्यादि तावद् धातकी पण्डो द्वीप समचक्र - वालसंस्थानसंस्थितः, नो विपमचक्रवालसंस्थानसंस्थितः । ' एवं चिक्खभो परिक्खेवो' जोड़संच' अनेन प्रकारेण कालोदसमुद्रस्य विष्कम्भ, परिक्षेपः, ज्यौतिपंच 'जहा जीवाभिगमे तहा भाणियचं' यथा जीवाभिगमे प्रोक्तं तथा भणितव्यम् । कियत्पर्यन्तमित्याह 'जाव' इत्यादि, 'जाव ताराओ' यावत् ताराः, तारा प्रमाणपर्यन्तं पठितव्यम् तथाहि तत्पाट -
'ता कालोएणं' इत्यादि 'ता' तावत् 'कालोएणं समुढे' कोलोदः खलु समुद्रः कियान् चक्रवालविष्कम्भेण कियान् परिक्षेपेण आख्यातः ? इति प्रश्नः । भगवानाह - 'ता कालोएणं' इत्यादि 'ता' तावत 'कालोएणं समुद्दे' कालोदः खलु समुद्रः अष्टलक्षयोजन परिमितश्चक्रवालविष्कम्भेण प्रज्ञप्तः । अस्य परिक्षेपः - एकनवतिर्लक्षाणि, सप्ततिः सहस्राणि, पञ्चोत्तराणि पट् शतानि च (९१७०६०५) योजनानाम्, एतावत्परिमितः किञ्चिद्विशेषाधिकः प्रोक्तः । अथ चन्द्रादिविषये प्रश्नः - 'ता कालोएणं समुद्दे केवइया चंदा' इत्यादि पृच्छा । भगवानाह - 'ता कालोएणं' इत्यादि, 'ता तावत् 'कालोएणं समुढे' कालोदे खलु समुद्रे 'वायालीस चंदा' द्वाचत्वारिंशत् चन्द्राः प्राभासयन् वा ३, द्वाचत्वारिंशत् सूर्या अतापयन् वा ३, द्वासप्तत्यधिकानि एकादश नक्षत्रशतानि (१९७२) योगमयुञ्जन् वा ३, त्रीणि सहस्राणि पण्णवत्यधिकानि पट् शतानि ( ३६९६ ) महाग्रहाणां चारमचरन् वा ३, अष्टाविंशतिशत सहस्राणि लक्षाणि, द्वादश सहस्राणि पञ्चाशद धिकानि नवशतानि (२८१२९५०) कोटी कोट्यस्ताराः शोभामशोभन्त वा ३ | शोभन्ते वा शोभिप्यन्ते वा ॥ परिक्षेपस्य गणितभावना यथा कालोदसमुद्रस्य एकतोऽपरतथेति द्वयोः प्रत्येकमष्टावष्टौ योजन लक्षाणीति जायन्ते पोडश लक्षाणि, धातकीपण्डस्य उभयतश्चत्वारि लक्षाणि मिलित्वाऽष्टौ लक्षाणि, एवं लवणसमुद्रस्य उभयतो हि द्विलक्षसद्भावाच्चत्वारि लक्षाणि, तथा जम्बूद्दीपस्य एकं लक्षम् (१६=८=४=१।) इति मिलित्वा सर्वसख्यया एकोनत्रिंशल्लक्षाणि (२९०००००) जातानि, एतेषां वर्गे कृते जायन्ते अष्टकः, चतुष्कः, एककः, तदुपरि दशशून्यानि (८४१००० ०००००००) ततो दशभिर्गुणने पूर्वोक्ताकोपरि जायन्ते एकादश शून्यानि (८४१०००००० ०००००) एपां वर्गमूलानयने लब्धं यथोक्तम् – (९१७०६०५) शेषं-त्रिको नवकस्त्रिकस्त्रको नवकः सप्तक' पञ्चकः (३९३३९७५) इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्तम् । नक्षत्रादीनां भावना तु नक्षत्रग्रहताराणां स्व स्व संख्यायाश्चन्द्रसूर्याणां द्वाचत्वारिंशत्वेन द्वाचत्वारिंशता गुणने स्वस्व संख्या समागमिष्यतीति स्वयं परिभावनीयम् । अत्र पूर्वोक्तसंख्याप्रतिपादिकाश्चतस्रो गाथाः सन्ति, ताः सुगमाः । इति जीवाभिगमपाठव्याख्या |
कालोदः समुद्रः केन वेष्टित ? इत्यत्राह - 'ता कालोयं णं' इत्यादि, 'ता' तावत् 'कालोयं ण समुहं' कालोदं खलु समुद्रम् 'पुत्रखरवरे णामं दीवे' पुष्करवरो नाम द्वीपो वृत्तो वलया