________________
चन्द्रज्ञप्तिप्रकाशिकाटीका० प्रा०१९ सू१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६६५
इत्यादि, सुगमम् । भगवानाह समचक्रवालसस्थानसंस्थितः न तु विषमचक्रवालसंस्थानसंस्थितः अथ विष्कम्भपरिधिविपये गौतमस्य प्रश्नः-'ता धायईसंडेणं दीवे' इत्यादि 'ता' तावत् 'धायईसडेणं दीवे' धातकी पण्डः खलु द्वीपः 'केवइए चकवालविक्खंभेणं' कियान् चक्रवालविष्कम्भेण 'एव विक्खंभो परिक्खेवो जोइस' एवम्-अनेन प्रकारेण धातकोपण्डस्य विष्कम्भःपरिक्षेप ज्यौनिपं ज्योतिश्चक्रम् इतिसर्व 'जहा जीवाभिगमे जाव ताराओ' यथा जीवाभिगमे तथा तारा पर्यन्तं वाच्यम् । तथाहि तत्पाठः
'केवइए परिक्खेवेणं'-इत्यादि, सुगमम् । भगवानाह–'ता चत्तारि' इत्यादि धातकी पण्डस्य चक्रवालविष्कम्भश्चतुर्लक्षयोजनपरिमितः परिधिमाह-'इगतालीसं' इत्यादि एकचत्वारिंशद् योजनलक्षाणि दश च सहस्राणि एक पष्टयधिकानि नव योजनशतानि (४११०९६१) किचिद्विशेपोनानि, एतावत्परिमितः परिक्षेपो धातकी पण्डस्येति । परिधिभावना यथा जम्बूद्वीपविष्कम्भो लक्षयोजनपरिमितः, लवणसमुद्रस्य उभय पार्श्वतो द्वे द्वे योजनलक्षे इति तानि चत्वारि लक्षाणि धातकी पण्डस्योभयतश्चत्वारि चत्वारि लक्षाणि मिलितानि भवन्ति-अष्टौ, तत एकं, चत्वारि, अष्टौ चेनि मिलित्वा सर्वसख्यया जातानि त्रयोदश लक्षाणि (१३०००००) ततोऽस्य राशर्वर्गे कृते जातो राशि:-एककः पट्को नवक', तदुपरि च दश शून्यानि (१६९००००००००००) पुनरपि दशभिरेश राशि गुण्यते जातानि पूर्वोक्ताङ्कानामुपरि एकादश शून्या नि (१६९०००००००००००) एतेषां वर्गमूलानयने लब्धानि एकचत्वारिंशल्लक्षाणि, दश सहस्राणि नवशतानि एकपष्टयधिकानि (४११०९६१) यथोक्तानि योजनानामिति ।
अथ धातकीपण्डगत चन्द्रादिविषये गौतमस्य प्रश्नः-'ताधायईसंडेणं दीवे' इत्यादि सुगमम् भगवानाह 'धायईसंडणं दीवे' धातकोपण्डे खलु द्वीपे 'वारस चंदा' द्वादशचन्द्राः प्राभासयन् वा ३ । द्वादशैव सूर्या अतपयन् वा ३ । अत्र नक्षत्राणि षट्त्रिंशदधिकानि त्रीणि शतानि (३३६) योगमयुञ्जन् वा ३ । महाग्रहाः षट् पञ्चाशदधिकैकसहस्रसंख्यका (१०५६) श्चारमचरन् वा । ताराश्च-अष्टौ लक्षाणि, त्रीणि सहस्राणि सप्तच शतानि (८३०७००) कोटी कोटीनां शोभाम् अशोभन्त-अकुर्वन् वा ३. तत्कथमिति प्रदर्श्यते अत्र चन्द्रा द्वादशेति नक्षत्रसंख्या अष्टाविंशति दशभि गुण्यते जायन्ते पत्रिंशदधिकानि त्रीणि शतानि यथोक्तानि । एवमेकस्य चन्द्रस्य यो यो ग्रहपरिवारस्तारापरिवार श्चास्ति तस्य द्वादश भिर्गुणने यथोक्ता सख्या समागच्छतीति स्वयमवगन्तव्यम् अत्र परिधेः चन्द्रादीनां च प्रमाणप्रतिपादिका स्तिस्रो गाथाः सन्ति, ताश्च सुगमाः । इति जीवाभिगमपाठव्याख्या ।
अयं धातकी षण्डः केन समुद्रेण परिवेष्ठितः ? इत्याह-'ता धायईसंडेणं' इत्यादि घातकीपण्ड द्वोपं कालोदः समुद्रः परिक्षिप्य परिवेष्टय तिष्ठति । अस्य संस्थानविषये गौतमस्य
८४