________________
चन्द्राप्तिप्रकाशिकाटीका प्रा० १ -२सू०६ औतरार्द्धमण्डलसंस्थितिस्वरूपम् ४३ 'अद्धमंडलसंठिई' अर्द्धमण्डलसंस्थितिः 'आहिया' आख्याता 'त्तिवएज्जा' इति वदेत् एतद् वदतु भगवान् इति-प्रश्नः । भगवानाह-'ता' तावत् 'अयण' मयं खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपो द्वीपः मध्यजम्बूद्वीपः 'सव्वदीव जाव परिक्खेवेणं' सर्वद्वीप यावत् परिक्षेपेण सर्वद्वीपसमुद्राणां मध्ये सर्वाभ्यन्तरः सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लकः एकलक्षयोजनायामविष्कम्भपरिमाणवत्त्वात् , परिक्षेपेण परिधिना पूर्वप्रदर्शितप्रमाणेन 'पण्णत्ते' प्रज्ञप्तः । 'ता' तावत् 'जयाण' यदा खल 'सरिए' सूर्यः 'सव्वन्भंतरं' सर्वाभ्यन्तरं सर्वाभ्यन्तरस्थितां 'उत्तर' औत्तरां उत्तरदिग्भाविनी 'अद्धमंडलसंठिई' अर्धमण्डसंस्थितिं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं तदा खलु 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः उक्कोसए' उत्कर्षकः 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति, 'जहणिया' जघन्यिका सर्वलम्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति । अग्रे प्रथमे षण्मासे, द्वितीये पण्मासे इति परिपूर्ण आदित्यसंवत्सरे यथा दाक्षिणात्याया अर्धमण्डलसंस्थितेाख्या कृता तथैवास्या औत्तराया अर्धमण्डलसंस्थितेरपि सर्वा व्याख्याऽवसेया, विशेषस्तु एतावानेव यद् दाक्षिणात्यार्घमण्डलसंस्थितौ 'दाहिणं दाहिणाए' दाक्षिणात्यां दाक्षिणात्यात्' इति दाक्षिणात्यशब्देन व्याख्यात तदत्र मौत्तरायामधमण्डसंस्थितौ सर्वत्र 'उत्तरं उत्तराए' 'औत्तरां औतरात्' इति शब्देन व्याख्येयम्, शेपं सर्व दाक्षिणात्यार्धमण्डसंस्थितिवदेव विज्ञेयमतोऽत्र विस्तरभयान्न व्याख्या कृता। मूलार्थः सर्वोऽपि छायागम्यत्वात् सुगम एवेति विरम्यते ॥ सू० ६ ॥
॥ इत्यौत्तरा अर्धमण्डलसंस्थितिः समाप्ता ।। ।। इति प्रथमस्य मामृतस्य द्वितीयं प्राभृतमाभृतं समाप्तम् ॥
गतं प्रथमस्य मूलप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् , साम्प्रतं 'किं ते चिण्णं पडिचरई' । इति चीर्णप्रतिचरणाधिकारविषयकं तृतीयं प्राभृतप्राभृतं व्याख्यायते-'ता किं ते चिण्णं' इत्यादि ।
___ मूलम् - ता किं ते चिण्णं पडिचरइ आहितेति वदेज्जा ?, तत्थ खलु इमे दुवे सूरिया पण्णत्ता तं जहा-भारहे चेव सरिए ?, एरवए चेव सूरिए । ता एते णं दुवे सूरिया पत्तये २ तीसाए २ मुहुत्तेहिं एगमेगं अद्धमंडलं चरइ सट्ठीए सट्ठीए मुहुत्तेहिं एगमेगं मंडलं संघाएंति । ता णिक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णरस चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति, तत्थ णं को हेउ-त्ति वदेज्जा ? ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । तत्थ णं अयं भारहे चेव सूरिए जंबुद्दोवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं