SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा.१५ सू.४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६२१. कृत्वा तन्मध्यात् एकत्रिंशतं भागान् ‘चरइ' चरति । त्रैराशिकं क्रियते, तथाहि-यदि चतुरशीत्यधिकाष्टाशतैश्चन्द्रमण्डलैः (८८४) त्रिंशदधिकाष्टादशशताहोरात्राणि (१८३०) लभ्यन्ते तदा एकेन मण्डलेन कति अहोरात्राणि लभ्यन्ते ? राशित्रयस्थापना-८८४११८३०११। अत्रापि अन्त्येन राशिना मध्यं राशिं गुणयित्वा आयेन राशिना भागो हरणीयः, हृतेच भागे लब्धौ द्वावहो छेद्याछेदक रात्रौ (२), शेषास्तिष्ठन्ति' द्वषिष्टिः (६२) ततश्छेद्यछेदकराश्योः ( ) द्विकेनापवर्तना क्रियते, 'लभ्यन्ते एकत्रिशद भागीः द्विचत्वारिंशदधिकचतुः शतभागसम्बन्धिनः (३१६ ) । तत आगतम्-चन्द्र एकैकं मण्डलं द्विचत्वारिंशदधिकचतुःशतभागसत्कैकत्रिंशद्भागसहिताभ्यां द्वाभ्यामहोरात्राभ्यां चरतीति । , अथ मण्डलविपयां सूर्यचागहोरात्रसंख्यामाह- 'ता एगमेग' इत्यादि, 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'मूरिए' सूर्यः 'कइहि अहोरत्तेईि चरई' कतिभिरहोरात्रैश्चरति !, भगवानाह-'दोहिं अहोरत्तेहि' द्वाभ्यामहोरात्राभ्यां 'चरई' चरति । यतो हि एकस्य युगस्य . अहोरात्राणि त्रिंशदधिकाष्टादशशतानि (१८३०) सूर्य मण्डलानि च पञ्चदशोत्तर नव शतानि (९१५) इति युगाहोरात्रेभ्यः सूर्य मण्डला नामर्द्धत्वात् द्वाभ्यामहोरात्राभ्यामेकं मण्डलं चरतीति । .. अथ नक्षत्रस्य - - मण्डलविषयामहोरात्रसंख्यामाह- 'ता एगमेगं' इत्यादि 'ता' तावत् 'एगमेगं मंडलं' एकैकं मण्डलं 'णक्खत्ते' नक्षत्रं 'कइहिं अहोरत्तेहिं चरइ'. कतिभिरहोरात्रैश्चरति ? भगवानाह-'ता' तावत् 'दोहि अहोरत्तेहिं द्वाभ्यामहोरात्राभ्याम् ? 'दोहिं भागेहिं ऊणेहि' द्वाभ्यां भागाभ्यां ऊनाभ्याम् , 'तिहि सत्त सहेहिं सएहिं राइंदियं छेत्ता' सप्तषष्टयधिकैस्त्रिभिः शतैः (३६७) रात्रिन्दिवं छित्त्वा, एकस्य रात्रिन्दिवस्य सप्तषष्टयधिकशतत्रयभागान् कृत्वा तन्मध्याद् द्वाभ्यां भागाभ्यां होनाभ्यां द्वाभ्यामहोरात्राभ्यां (१२६५) 'चरइ' चरति । तथाहि-एकस्मिन् युगे नक्षत्रमण्डलानि सार्द्धसप्तदशाधिकानि नव शतानि (९१७), एपामर्द्धमण्डलकरणार्थं तानि द्वाभ्यां गुण्यन्ते जातानि पञ्चत्रिंशदधिकानि-अष्टादश शतानि (१८३५),, ततो युगाहोरात्राण्यपि द्वाभ्यां गुण्यन्ते, जातानि षष्टयधिकानि - षट् त्रिंशच्छतानि (३६,६०) ततस्त्रैराशिकं क्रियते, तथाहि-यदि पञ्चत्रिंशदधिकाष्टा... दश शतैर्नक्षत्रमण्डलैः १ष्टयधिक षट् त्रिंशच्छतानि रात्रिन्दिवानी लभ्यन्ते तदा एकेन मण्डलेन कति रात्रिन्दिवानि लभ्यन्ते ? राशित्रयस्थापना-१८३५।३६६०११। अत्रान्येन राशिना मध्यराशिगुणितो जातस्तावानेव (३६६०), अस्य आयेन राशिना (१८३५) भागो हियते, लब्धमेकं रात्रिन्दिवम् , शेषाणि स्थितानि पञ्चविंशत्यधिकानि अष्टादशशतानि (१८२५) ततोऽयं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy