SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ प्राप्तिप्रकाशिका टीका प्रा.१३ सू. ३...मण्डलेषु चन्द्रार्द्धमासचार निरूपणम् (५८९ . द्वितीयं चन्द्रायणं 'समत्ते भवई' समाप्तं भवतीति ।२। यद्येवं द्वितीयमप्ययनमेतावत्प्रमाणं •-भवति ततो नाक्षत्रमासस्य चान्द्रमासस्य च किं साम्यमस्ति ? नेत्याह-'ताणक्खत्ते' इत्यादि 'ता' तावत् 'नक्खत्ते मासे' नाक्षत्रो मासः 'नो चंदे मासे' नो चान्द्रो; मासो भवति एवं 'चंदे मासे' चान्द्रो मासः 'णो णक्खत्ते मासे' नो नाक्षत्रो मासः चान्द्रो मासो नाक्षत्रो मासो न भवतीत्यर्थः । एवं श्रुत्वा गौतमः पृच्छति-'ता णक्खत्ताओ'. इत्यादि - 'ता' तावत् ‘णक्खत्ताओ' नाक्षत्रात् मासात् 'चंदे' चंद्रः 'चदेणं मासेणं' चान्द्रेन मासेन 'किमधियं चरई' किम् कियत्प्रमाणम् अधिकं चरति ? । एवं गौतमेन पृष्टे भगवानाह-- , 'ता दो अद्धमडलाई' इत्यादि, 'ता' तावत् 'दो अद्धमंडलाई चरइ' द्वे अर्द्धमण्डले चरति, 'अट्ठयसत्तद्विभागाई' अष्ट च सप्तपष्टिभागान् 'अद्धमंडलस्स' तृतीयस्याई-मण्डलस्य, तथा 'सत्तहिभाग' च एकं च सप्तपष्टिभागं 'एक्कतोसधा छित्ता' एकत्रिंशद्धा छित्त्वा. एकस्य . सप्तपष्टिभागस्य एकत्रिंशद् भागान् कृत्वा तन्मध्यात् 'अट्ठारसभागाइं! अष्टादश भागान् चरति-(२ ) एतावत्परिमितं द्वितीये चन्द्रायणे चन्द्रश्चान्द्रेण मासेनाधिकं चरतीति भावः एतच्च प्रथमचन्द्रायणगताधिक्यात् द्विगुणं कृत्वा परिभावनीयम् । ... : ___अथ यावता कालेन चान्द्रो मासः परिपूर्णो भवति तावन्मात्र तृतीयायनवक्तव्यतामाह- 'ता तच्चायणगए चंदे' इत्यादि, अत्र पूर्वसम्बन्धः परिभावनीयः-इह द्वितीयायनंपर्यन्ते चतुदेशेऽर्द्धमण्डले पड्विंशति सख्यक सप्तष्टि भागमात्रमाक्रान्तम् , तच्च ‘परमार्थतः- पंञ्च‘दशमर्द्धमण्डलं वेदितव्यम् , तदभिमुखं बहुगतत्वात् , तदनन्तरं नीलवत्पर्वतप्रदेशे साक्षात् पञ्च - दशमर्द्धमण्डलं प्रविष्टो भवति, तत्र प्रविष्टश्च प्रथमक्षणादूर्ध्व सर्व बाह्यमण्डलानन्तरार्वाक्तनं (समी- ' पस्थ) द्वितीयमण्डलाभिमुख चरति, ततस्तस्मिन्नेव सर्वबाह्यमण्डलान्तरे अक्तिने द्वितीय मण्डले चारं चरतश्चन्द्रस्यात्र विवक्षा वर्तते, ततोऽस्याधिकृतसूत्रत्रयस्य सम्बन्धो जायते' 'ता' तावत् 'तच्चायणगए चंदे' तृतीयायनगतश्चन्द्रः' 'पच्चत्थिमाए भागाए, 'पाश्चात्याद् - भागात् 'पविसमाणे' प्रविशन् 'वाहिराणतरस्स' बाह्यानन्तरस्यार्वाग् भागवर्तिनः 'पच्चत्थिi मिल्लस्स अद्धमंडलस्स' पाश्चात्यस्यार्द्धमण्डलस्य 'इगतालीसं सत्तद्विभागाई' एकचत्वारिंशत - सप्तषष्टिभागान् , सप्तपष्टिसंख्यकभागानां मध्यात् षड् विंशति संख्यकसप्तषष्टिभागानां द्वितीया यनपर्यन्ते चतुर्दशेऽर्द्धमण्डले समाक्रान्तपूर्वत्वात् शेषान् एकचत्वारिंशतं, सप्तषष्टिभागानिति भावः, 'जाई चंदे' यान् चन्द्रः 'अप्पणो परस्स य चिण्णं पडिचरइ' आत्मनाः परेण वा - सूर्यादिना चीर्णात् स्वपरभुक्तभागान् प्रतिचरति, 'तेरस सत्तट्टि भागाई त्रयोदश सप्तषष्टि भागास्ते 'जाई चंदे, यान् चन्द्रः-'परस्स चिण्णं पडिचरइ, परेण सूर्यादिना चीर्णान् प्रति -
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy