________________
१२४
चन्द्राप्तिप्रकाशिका टीका प्रा. १३सू. ३ मण्डलेषु चन्द्रार्द्धमासचारनिरूपणम् ५८५ यथा “परमाणुप्रदेशः" इति कथने परमाणुरप्रदेश एव, यस्तु अप्रदेशः स. परमाणुरपि भवति अपरमाणुरपि भवति क्षेत्रप्रदेशादिः इत्याशङ्कायामाह सूत्रकारः 'ता चंदें इत्यादि, 'ता चंदे अद्धमासे, नो नक्खत्ते अद्धमासे' यथा नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्द्धमासो न भवति तथैव चान्द्रोऽर्द्धमासोऽपि नाक्षत्रोऽर्द्धमासो न भवति, यतो नाक्षत्रार्द्धमासरूपे. एकस्मिन्नयने सामान्यतश्चन्द्रस्य त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागाः ( १३।१३) भवन्ति, चान्द्रेऽर्द्धमासे च चतुदर्श मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्विशत्यधिक शतभागसत्का द्वात्रिंद्भागाः (१४। ३२ ) भवन्ति ततो नाक्षत्रार्द्धमास-चान्द्रार्द्धमासयोः परस्परं न साम्यमिति । पुनर्गीतमः पृच्छति 'ता' तावत् 'नक्खत्ताओ अद्धमासाओ' नाक्षत्राद् अर्द्धमासात् ‘से चंदे स चन्द्रः 'चंदेणं अद्धमासेणं' चान्द्रेण अर्द्धमासेन 'किमधियं चरइ' किमधिकं कियत्परिमितमधिकं चरति ? भगवानाह--'ता एगं' इत्यादि, 'ता' तावत् 'एग अद्धमंडलं' एकमर्द्धमण्डलं 'चरई' चरति, 'अद्धमंडलस्स' द्वितोयस्य चार्द्धमण्डलस्य 'चत्तारि य सत्तहिभागाई' चतुरः सप्तपष्टिभागान् पुनश्च 'सत्तट्टिभाग' एक सप्तपष्टिभागं 'एगतीसाए छित्ता' एकत्रिंशता छित्त्वा एकस्य सप्तपष्टिभागस्य एकत्रिंशतं भागान् कृत्वा तन्मध्यात् 'नवभागाई नवभागान् नव एकत्रिंशद्भागान् (१ -- ) । एतावत्परिमितं चन्द्रः नाक्षत्रार्द्धमासात्
६७३१ चान्द्रेण अर्द्धमासेन अधिकं चरतीति भावः । कथमेदिति प्रदर्य अत्रापि त्रैराशिकं कर्त्तव्यम् तथाहि--यदि चतुर्वि शत्यधिकेन पर्वशतेन अष्टषष्टयधिकानि सप्तदश मण्डलशतानि लभ्यन्ते तर्हि एकेन पवणा किं लभ्यते ! राशित्रयस्थापना-(१२४।१७६८३१) अत्रान्त्येन राशिना मध्यराशेर्गुणानात् जातस्तावानेन ( १७६९ ) तत आधेन राशिना (१२४ ) भागो हरणीयः, ततः छेद्यछेदकराश्योश्चतुष्केन अपवर्त्तना क्रियते, कथम् ? अत्र छेद्यराशिः अष्टषष्टयधिकानि
सप्तदशशतानि (१७६८) अस्य चतुष्केन अपवर्त्तनेति चतुर्भिर्भागो हियते लब्धानि द्विचत्वारिंशदधिकानि चत्वारिशतानि (४४२) ततश्छेदकराशेश्चतुर्विशत्यधिकशतरूपस्य (१२४) चतुष्केन अपवर्त्तनेति चतुर्भिभागो हियते लब्धानि एकत्रिंशत् (३१) । ततोऽपवर्तितस्य छेघराशे चित्वारिंशदधिक चतुः शतरूपस्य (४४२) अपवर्त्तितेन छेदकराशिना एकत्रिंशपेण (३१) भागो हियते लब्धाश्चतुर्दश (१४) मण्डलानि, शेषास्तिष्ठन्ति अष्ट, ते चाष्ट एक त्रिंशद्भागाः (१४८ )। तत एतस्माद् राशेर्नाक्षत्रार्द्धमासगम्यं क्षेत्रम्-त्रयोदश मण्डलानि, एकस्य च ।। १ । ।