________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा. १३. सू. ३ मण्डलेपु चन्द्राद्धमासचारनिरूपम् ५८३'
mmmmmmmmmmmmmmmmmmmmoon पूर्वेक्तानि खलु 'ताई' तानि 'छ अद्धमंडलाई षड्भर्द्धमण्डलानि 'अद्धमंडलस्स' एकस्य चार्द्ध मण्डलस्य 'तेरसत्तद्विभागाई' प्रयोदश सप्तषष्टिभागाः, 'जाई चंदे' यानि चन्द्रः 'उत्तराए भागाए' उत्तरस्माद् भागात् 'पविसमाणे' प्रविशन् 'चारं चरइ' चारं चरति । दक्षिणभागादभ्यन्तरप्रवेशे, एवमुत्तरभागादभ्यन्तरप्रवेशे च यानि अर्द्धमण्डलानि प्रदर्शितानि तद्विषयाभावना चेत्थम्
सर्ववाह्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्णे पाश्चात्य युगपरिसमाप्ति र्भवत्तिं ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकश्चन्द्रो दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयमण्डलमाक्रम्य चारं चरति, स च पाश्चात्य युगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं
चरितवान् सोऽत्र वेदितव्यः । ततः एतस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्र उत्तरस्यां दिशि सर्व बाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति । तृतीयेऽहोरात्रे दक्षिणस्यां दिशि चतुर्थमर्द्धमण्डलम् , चतुर्थेऽहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमण्डलम् , पञ्चमेऽहो रात्रे दक्षिणायां दिशि षष्ठमर्द्धमण्डलम् पप्टेऽहोरात्रे उत्तरस्यां दिशि सप्तममर्द्धमण्डलम्, सप्तमेऽहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलम् , अष्टमेऽहोराने उत्तरस्यां दिशि नवममर्द्धमण्डलम्, नवमेऽहोरात्रे दक्षिणस्यां दिशि एकादशमर्द्धमण्डलम् , एकादशेऽहोरात्रे दक्षिणस्यों दिशि द्वादशमर्द्धमण्डलम् , द्वादशेऽहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलम् त्रयोदशेऽहोलाने दक्षिणस्यादिशि चतुर्दशमईमण्डलम् , चतुर्दशेऽहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागानाक्रम्य चार चरति । ततः किमित्याह सूत्रकार:-'एयावया' इत्यादि, 'एयावयाच' एतावता च कालेन 'पढमे चंदायणे समत्ते भवइ' प्रथमं चन्द्रायणं समाप्तं भवति ।
चन्द्रायणं हि नक्षत्रार्द्धमासप्रमाणं भवति, ततश्च नाक्षत्रेण अर्द्ध मासेन चन्द्रचारे त्रयोदशमण्डलानि, चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तपष्टिभागा. (१३-१३) भवन्ति । तत्कथं
लभ्यते ? त्रैराशिकगणितेन लभ्यते तथाहि-एकस्मिन् युगे चन्द्रमण्डलानि अष्ट षष्टयधिकानि सप्तदशगतानि (१७६८) भवन्ति, चन्दायणानि च चतुस्त्रिंशदधिकशतसंख्यकानि (१३४) भवन्ति ततो यदि चतुस्त्रिंशदधिकेन अयनशतेन (१३४) सप्तदशशतानि अष्ट षष्टयधिकानि(६३६८) मण्डलानि लभ्यन्ते तत एकेन अयनेन किं लभ्यते ? राशित्रयस्थापना-१३४।१७६८। १॥ ततोऽन्त्येनं राशिना मध्यरागौ गुणिते सति जातस्तावानेव (१७६८) ततस्तस्यायेन राशिना ११३४) भार्गो हियते, लब्धास्त्रयोदश (१३) शेषास्तिष्ठन्ति षड्विंशति. (२६)ततश्छेद्यछेदक