________________
चन्द्रप्तिप्रकाशिका टोका प्रा १३ सू. २ एकस्मिन्युगे कियन्त्योऽमावास्या पौर्णमास्यश्च ५७५
विरागसए' एतत् चतुर्विशत्यधिक कृत्स्न रागविरागशतम् युगमध्ये कृत्स्नरागविरागयो
पण्टि द्वापण्टि संख्यकत्वात् तयोः सम्मेलने भवति चतुर्विशत्यधिकं कृत्स्नरागविरागशतमिति । 'जावइयाणं' यावत्का-यावत्परिमिताः पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणां 'समया' समया भवन्ति ते 'एगेणं चउबोसेणं सएणं' एकेन चतुर्विशत्यधिकेन शतेन 'ऊणगा' ऊनका. न्यूनाः चतुर्विशत्यधिकेन शतेन ऊनी कृते यावन्तः समया भवन्ति 'एवइया' एतावत्का इयन्तः 'परित्ता' परीताः परिमिताः असंखेज्जा' असंख्येया 'देसरागविरागसमया' देशरागविरागसमया भवन्ति, एतेषु सर्वेष्वपि समयेपु चन्द्रस्य देशनो रागविरागसद्भावात् । अत्र यत 'चतुर्विशत्यधिकेन शतेन ऊना समया' इति कथितं तत् 'चतुर्विशत्यधिकशत समयानां मध्ये द्वापष्टि समयेषु पौर्णमासी सत्केपु कृत्स्नो विरागो भवतीत्यतस्त दर्जनमधिकृत्य ऊना', प्रोक्तम् । 'तिमक्खाय' इति आख्यातं-भगवतेति ।
माम्प्रतम् अमावास्यातोऽनन्तरं पौर्णमासी, पौर्णमासीतोऽनन्तरं चामावास्या कियत्सु मुहूर्तेपु गतेपु मत्सु समायाति ? इत्यादि निरूपयन्नाह-'ता अमावासाओणं' इत्यादि सर्व मूलसूत्रगम्यम्, तथाहि-'अमावास्यातोऽनन्तरं पोर्णमासो पद चत्वारिंशद् द्वाषष्टिभागयुक्तद्विचत्वारिशदधिकचतुः मुइर्लान् (४४२। व्यतिक्रम्यायाति, एतावत एव मुइतन् व्यतिक्रम्य पौर्णमासतोऽमावास्याऽऽयातीति भावः । अथामावास्यातोऽमावास्या, पौर्णमासीतः पौर्णमासी क्रियन्मुहूर्तानन्तरऽमायातीति प्रदर्शयति-'ता अमावासाओणं' इत्यादि, एतदपि सुगमम् । अय भावः-अमावास्यातोऽनन्तरं चन्द्रमासस्यार्द्धन पौर्णमासी समागच्छति, पौर्णमासीतोऽनन्तरमर्दैन चन्द्रमासेन अमावास्या समागच्छति । अमावास्यातोऽमावास्या, पौर्णमासीतश्च पौर्णमासीत्येदद्वयं परिपूर्णेन चन्द्रमासेन भवतोति अमावास्यातोऽमावास्या, पौर्णमासीचेत्येतद् द्वयमपि त्रिंशद्वापष्टिभागयुक्त पञ्चाशीत्युत्तराष्टशतमुहर्त्तानन्तरम् (८८५।२०) परस्पर मेका मावास्यातो हितोयाडमास्या, एक पौर्णमासीतो द्वितीया पौर्णमासी समायातीति । एतत्कथमित्याह-चन्द्रमासस्य एकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टि भागाः (२९।३२।) भवन्ति । एकस्याहोरात्रस्य त्रिशन्मुहूर्ता इति पूर्वोक्तराशे स्त्रिंशता गुणने समायति एकपूर्णिमातो द्वितीयपूर्णिमापर्यन्तकालस्य यथोक्ता · मुहूर्त्तसंख्या (८८५।२१) इति । उपसंहारमाह-'एसणं' इत्यादि 'एसणं' एषः खलु पश्चाशीत्यधिकानि अष्टौ मुहूर्तशतानि, एकस्य मुहूर्तस्य त्रिशच्च द्वाषष्टिभागाः, इत्येतावान् ‘एवइए' एतावत्कः एतावन्मुहूर्तप्रमाणकः 'चंदे मासे' चाद्रो मासो