________________
५७२
चन्द्रप्राप्तिसूत्रे 'जाव' यावत्-यावत्पदेन तृतीयायां तृतीयं पञ्चदशं भागम् ३, चतुर्थ्यां चतुर्थ पञ्चदशं भागम् ४, पञ्चम्यां पञ्चम पञ्चदशं भागम् ५, षष्टयां पष्ठं पञ्चदश भागम् ६, सप्तम्यां सप्तमें पञ्चदशं भागम् ७, भष्टम्यामष्टमें पञ्चदश भागम् ८, नवम्यां नवर्म पञ्चदशं भागम् ९, दशम्यां दशमें पञ्चदशं भागम् १०, एकादश्यामेकादशं पञ्चदशं भागम् ११, द्वादश्यां द्वादशं पञ्चदशं भागम् १२, त्रयोदश्यां त्रयोदशं पञ्चदशं भागम् १३, चतुर्दश्यां चतुर्दशं पञ्चदशं भागम् १४, अग्रे सूत्रकार एवाह-~-'पण्णरसीए' इत्यादि, ‘पण्णरसीए' पञ्चदश्याम्अमावास्यायां समाप्नुवत्या मित्यर्थः 'पण्णरस भागं' पञ्चदशं परिपूर्ण पञ्चदशं भार्ग यावत् चन्द्रो रज्यते । तस्याश्च पञ्चदश्या अमावास्यारूपायास्तिथेः 'चरिमसमए' चरमसमये 'चंदे' चन्द्रः 'रत्ते भवई' राहुविमानप्रभया सर्वात्मना परिपूर्णभावेन रक्तो भवति, किञ्चिन्मात्रोऽपि भागश्चन्द्रस्य न दृश्यते चन्द्रस्तिरोहितो भवतीति तात्पर्यार्थः । पोडगो भागो यो द्वापष्टिभागद्वयात्मक. सदाऽनावृत्तस्तिष्ठति स स्तोकत्वेना दृश्यत्वान्न गण्यते । 'अवसेसे समए' अवशेपे पञ्चदश्यास्तिथेश्चरमसमयातिरिक्त समये अन्धकारपक्षस्य प्रथमसमयादारभ्य शेपेपु पञ्चदशीतिथेश्चरमसमयात्पूर्वं पूर्व ये समयास्तेषु सर्वेषु समयेषु 'चंदें चन्द्रः 'रत्ते य विरत्तेय भवइ' रक्तश्च विरक्तश्च भवति कियदंशानां राहुणा आवृतत्वात कियदंशानां चानावृतत्वात् । अन्धकार पक्षवक्तव्यताया उपसंहार-'इयण्णं' इत्यादि, 'इयण्णं' इयं खल इयम् अन्धकारपक्षे या पञ्चदशीतिथिः खल 'अमावासा' अमावास्या कथ्यते । 'एत्थ णं' अत्र युगे खलु 'पढमे पव्वे अमावासा' प्रथमं पर्व अमावस्या, इयममावास्या, युगस्य प्रथम पर्वसमस्ति मुख्यत्वेन अमावास्या पौर्णमास्योरेव पर्वशब्देनाभिधीयमानत्वात् । अथ कथं द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि, एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वापष्टि भागाः १ अत्रोच्यते-इह शुक्ल पक्षः कृष्णपश्च चन्द्रमासस्यार्द्धमर्द्धम् , चन्द्रमास्य द्वात्रिंशद् द्वापष्टिभाग युक्तैकोन त्रिंशद्रात्रिन्दिवात्मकत्वातस्य चन्द्रमासार्द्धस्य पक्षरूपस्य प्रमाणं-चतुर्दशरात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य सप्तचत्वारिंशद् द्वापष्टिभागाः (१४ ) इत्येवं रूपं भवति, एक रात्रिन्दिवं त्रिंशन्मुहूर्तात्मकमिति चतुर्दशत्रिंशता गुण्यते, जातानि विंशत्यधिकानि चत्वारि मुहूर्तशतानि (४२०) येऽपि चोपरितनाः सप्तचत्वारिंशद् द्वापष्टिभागाः (४७) तेऽपि मुहूर्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि दशोत्तराणि चतुर्दशगतानि (१४१०) एषां द्वापष्टया भागो हियते लब्धा द्वाविंशति मुहूर्ताः, ते मुहर्तराशौ विंशत्यधिक चतुःगतरूपे (४२०) प्रक्षिप्यन्ते, जातानि द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि (४४२), शेपास्तिष्ठन्ति मुहर्तस्य पट्चत्वारिंशद् (४६) द्वापष्टिभागाः ।
तदेवमागतं सूत्रोक्तं प्रमाणम् (४४२] 25 ) इति ।