________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १२ सू. ६ सूर्यचन्द्रयोः हेमन्तीमावृत्तिस्वरूपम् ५५९ अन्त्येन राशिना एककलक्षणेन गुणिता मध्यराशिः पञ्च तेन जाताः पञ्चैव, तेषां दशभिर्भागेडूते लभ्यते अर्द्ध पर्यायस्य, त्रिंशदधिकाष्टादशशत (१८३०) परिमितपरिपूर्णपर्यायस्याई भवति पञ्चदशोत्तर शतनवकम् (९१५), तत्र ये विंशतिः सप्तषष्टिभागाः पाश्चात्येऽयने पुष्यस्य गताः, शेषा ये स्थिताश्चतुश्चत्वारिंशत् सप्तपष्टिभागास्ते साम्प्रतमस्माद् राशेः शोध्यन्ते, स्थितानि शेषाणि एकसप्तत्यधिकानि भष्टौशतानि (८७१) तेषां सप्तपष्टया भागो हियते लब्धास्त्रयोदश, पश्चान्न किमपि तिष्ठति । एभित्रयोदशभिश्चाश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शोध्यन्ते तत आगतम्-अभिजिन्नक्षत्रस्य प्रथमसमये हैमन्ती प्रथमा अवृत्तिः प्रवर्तते । उत्तराषाढानक्षत्रस्य परिपूर्ण उपभोगो जातस्तत उक्तम्-'उत्तरापाढानक्षत्रस्य चरमसमये' इति । एवं सर्वा अपि हेमन्तकालसम्बन्धिनो माधमासमाविन्यः सर्वाः अपि आवृत्तयः सूर्यनक्षत्रमाश्रित्य उत्तराषाढानक्षत्रे परिणे भुक्ते सति अभिजिन्नक्षत्रस्य प्रथमसमये प्रवृत्ता भवन्तीति ज्ञातव्यम् । उक्तञ्च-~
"बाहिरओ पविसंतो, आइच्चो अभिइजोगमुवगम्म । सव्वा आउट्टीओ, करेइ सो माघमासम्मि" ॥१॥
छाया--बाह्यतः बाह्यमण्डलात्-अन्तः प्रविशन् आदित्यः अभिजिद् योगमुपगम्य । सर्वा आवृत्तीः करोति स माघमासे ।। इति
अथ द्वितीय हैमन्त्यावृत्तिविषयकं सूत्रमाह-'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां प्रसिद्धानां खल 'पंचण्डं संवच्छराणं' पञ्चानां सवत्सराणां मध्ये 'दोच्चं हेमंति' द्वितीयां हैमन्तीम्-हेमन्तर्तुव्यापिनी माघमासभाविनीम् 'आउट्टि' आवृत्ति 'चंदे' चन्द्रः 'केणं नक्खत्तण' केन नक्षत्रेण सह योगमुपागतः सन् 'जोएइ' युनक्ति प्रवर्तयति । भगवानाह-'ता सयभिसयाहिं' इत्यादि 'ता' तावत् 'सयभिसयाहि शतभिपग्भिः शतभिपगूनक्षत्रेण युक्तः सन् द्वितीयां हैमन्तीमावृत्ति प्रवर्त्तयति किं प्रमाणे मुहर्तादिभिः शेषैः प्रवर्त्तयति ? इति प्रदर्शयति-'सयभिसयाणं' इत्यादि, 'सयभिसयाणं' शतभिषजा शतभिग्नक्षत्रस्य 'दुन्निमुहुत्ता' द्वौ मुहूतौ, अट्ठावोसं च बावट्टि भागामुहुत्तस्स' एकस्य च मुहूर्तस्य अष्टाविंशति षष्टिभागाः 'वावद्विभागं च' द्वाषष्टिभागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा छित्वा विभज्य तद्गताः 'छत्तालीसं' षट्चत्वारिंशत् 'चुण्णिया भागा' चुणिका भागाः सप्तपष्टिभागाः 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः द्वितीयां हैमन्तीमावृत्ति प्रवर्तयतीति । तदेव गणितेन स्पष्टयति-प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमास भाविनी आवृत्तिश्चतुर्थी भवतीति चतुष्कोऽकोध्रियते, रूपोने कृते नातस्त्रिकः, अनेन प्राक्तनो ध्रुवराशिः (५७३।३६।६) गुण्यते, जातानि सप्तदश शतानि एकोनविंशत्यधिकानि मुहर्तानाम् ,