________________
चन्द्राप्तिप्रकाशिका टीका प्रा १२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४५ शोधनकानि (५४९)। ततः 'समाई उगुणुत्तराई छच्चेवय सोज्झाहि विसाहासु' समानि. समग्राणि एकोनसप्तत्याधिकानि षट्शतानि विशाखासु विशाखापर्यन्तेषु नक्षत्रेषु गोधय, हस्तनक्षत्रादारभ्य विशाखा पर्यन्तानां नक्षत्राणां शोधनकसंमेलनेन-एकोनसप्तत्यधिकानि पट्शतानि (६६९) गोधनकानि भवन्ति । तथाहि-हस्तस्य त्रिंशत् ३०, चित्रायास्त्रिशत् ३०, स्वातेः पञ्चदश १५ विशाखाया पञ्चचत्वारिंशत् ४५, सर्वसकलनया जातं विंशत्यधिकं शतम् (१२०) एतत् पूर्वोक्तसंख्यायामेकोनपञ्चाशदधिकपञ्चशतरूपायां (५४९) प्रक्षिप्यते तत आयान्ति शोधनकानि यथोक्तानि-एकोनसप्तन्यधिकानि पट्शतानि (६६९) ततः 'मूले सत्तेव वोयाला' मूले मूलनक्षत्रे मूलनक्षत्रपर्यन्तमित्यर्थः चतुश्चत्वारिशदधिकानि सप्तगतानि (७४४) । अयं भावः-विशाग्वाया अनन्तरमनुराधेतिः, अनुराधाया स्त्रिंशत् ३०, ज्येष्ठाया' पञ्चदश १५, मूलस्य त्रिंशत् ३०, जाता पञ्चसप्ततिः ७५, अस्याः पूर्वरागी एकोनसप्तत्यधिकषट्शतरूपे (६६९) संमेलनेन भवन्ति यथोक्तानि चतुश्चत्वारिशदधिकानि सप्तशतानि (७४४) अभिजित आरभ्य मूलनक्षत्रपर्यन्तानां नक्षत्राणां शोधनकानीति । 'सोहणगं उत्तरा आस ढाणं' उत्तराषाढानाम् उत्तरापाढापर्यन्ताना नक्षत्राणां शोधनकम् , तथाहि-'अट्ठसयमुगुणवीसा' अष्टोशतानि एकोनविंशत्यधिकानि (८१९) इति । अयं भावः मूलनक्षत्रादनन्तरं पूर्वाषाढेति पूर्वाषाढानक्षत्रस्य त्रिंशत् ३० उत्तरापाढानक्षत्रस्य पञ्चचत्वारिंशत् ४५ इति जाता पञ्चसप्ततिः ७५, एष राशि. ७५ अभिजित आरभ्य मूलपर्यन्तशोधनकेषु चतुश्चत्वारिंशदधिक सप्तशतरूपेषु (७४४) समेल्यते, जायन्ते यथोक्तानि-एकोनविंशत्यधिकानि अष्टगतानि (८१९) एतानि गोधनकानि अभिजित आरभ्य उत्तरापाढा पर्यन्तानां नक्षत्राणामिति । तत एतेषां सर्वेपामपि शोधनकानामुपरि अभिजिन्नक्षत्रस्य नवमुहूर्तोपरि ये भागास्तान् दर्शयति 'चउवीसं' इत्यादि, चउवीसं खलु भागाछावट्ठी चुण्णिया भागा' चतुर्विशतिः खलु भागाः। द्वापष्टिभागाः, षट्पष्टिश्चूर्णिकाभागाः सप्तपष्टिभागाः ( २४१६६ ), एते अभिजित्सम्बन्धिनो भागाः पूर्वोक्तसर्वसंख्योपरि विज्ञेया
६२६७ इति । तत आगतम् – अभिजित आरभ्य उत्तराषाढापर्यन्तस्य अष्टाविंशति नक्षत्रगर्मितस्य परिपूर्णनक्षत्रपर्यायस्य एकोनविंशत्यधिकानि अप्टशतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य चतुर्विशतिपष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तषष्टि भागाः ( ८१९-४६६) एतावत्परिमिताः सर्वे मुहूर्ता भवन्ति, एते शोधनकानीत्युच्यते । इति षष्ठ
गाथार्थः ॥ ६ ॥ ततः किम् ? इत्याह-'एयाई' इत्यादि, ‘एयाई' एतानि पूर्वप्रदर्शितानि