________________
बन्द्रतिप्रकाशिकाटीकाप्रा. १२ सु. ५
सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४३ पूर्वं सप्तविंशतिर्गुण्यतेऽन्त्यराशिना सप्तकेन, जातं नवाशीत्यधिकमेकं शतम् (१८९) तस्याधेन राशिना दशकलक्षणेन भागो ह्रियते लब्धा अष्टादश दिवसाः एकस्य दिवसस्य त्रिंशन्मुहूर्त्ता भवन्तीति मुहूर्त्तानयनार्थं अष्टादशत्रिशता गुण्यन्ते, जातानि चत्वारिंशदधिकानि पञ्चशतानि (५४०) दशभिर्भागे हृते स्थिताः शेषा ये नव तेऽपि मुहूर्त्तकरणार्थ त्रिंशता गुण्यन्ते, जाते सप्तत्यधिके द्वे शते (२७०), ततो दशभिर्भागे हृते लब्धाः परिपूर्णाः सप्तविंशतिर्मुहूर्त्ताः (२७), एते पूर्वमागते चत्वारिंशदधिकपञ्चशतसंख्यके (५४०) मुहूर्त्तराशौ प्रक्षिप्यन्ते प्रक्षिप्ते च जातानि सप्तषष्ट - 'धिकानि पञ्चशतानि (५६७) । एते मुहूर्त्ताः स्थाप्याः । ततो येऽपि च एकविंशतिः सप्तषष्टिभागा मध्यराशिगतास्तेऽपि मुहूर्त्त भागानयनार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि पट्ातानि (६३०) एतानि अन्त्यराशिना सप्तकेन गुण्यन्ते, नातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि (४४१०), एषामाद्यराशिना दशकेन भागो हरणीयः, हूते च भागे लब्धानि - एकचत्वारिंशदधिकानि चत्वारि शतानि (४४१), एते जाताः सप्तषष्टिभागा इति मुहूर्त्तानयनार्थं सप्तषष्ट्या भागो हियते, उब्धाः षड्मुहूर्त्ताः ते पूर्वस्थापित मुहूर्त्तराशौ सप्तपंष्टयधिक पञ्चशतरूपे (५६७) प्रक्षिप्यन्ते, जातानि सर्वसंख्यया त्रिसप्तत्यधिक पञ्चशतसंख्यका (५७३) मुहूर्त्ताः । तत एकचत्वारिंशदधिकचतुःशतानां सप्तषष्टचा भागे हृते ये उद्धरिता एकोनचत्वारिंशत् (३९) तेऽपि द्वाषष्ट्या गुण्यन्ते जातानि अष्टादशाधिकानि चतुर्विंशतिः शतानि (२४१८) एषामपि सप्तषष्टचा भागो हियते लब्धाः षट्त्रिंशत् ( ३६ ) द्वाषष्टिभागाः, शेषास्तिष्ठन्ति षट्, तेज एकस्य द्वाषष्ठि भांगस्य सम्बन्धिनः सप्तषष्टिभागाः चूर्णिका भागा इत्यर्थः, एतेऽपि श्लक्ष्णरूपत्वेन चूर्णिकाभागा इति कथ्यन्ते । तत आगतम्, त्रि सप्तत्यधिकानि पञ्चशतानि मुहूर्त्तानाम् एकस्य च मुहूर्त्तस्य षट् त्रिंशदद्वाषष्टिभागा', एकस्य च द्वापष्टिभागस्य षट् सप्तषष्टिभागाः (५७३ ३६ ६ एष ध्रुवराशिर्निष्पन्नः ॥ १ ॥
एकस्य च मुहूर्तस्य चतुर्विंशति द्वष्टषिभागाः, एकस्य द्वाषष्टिभागस्य समप्राः परिपूर्णाः षट्षष्टिः सप्तषष्टिभागाः (९-३३/६७), एतत्परिमितमभिजिन्नक्षत्रस्य शोधनकं भवंति ।
एतस्य कथमुत्पत्तिः ? इति चेदुच्यते - इहाभिजिन्नक्षत्रस्य अहोरात्रसम्बन्धिनः एक विंशतिं सप्तषष्टिभागान् यावत् चन्द्रेण सह योगो भवति, एकस्मिन्नहोरात्रे च त्रिंशन्मुहूर्ता भवन्तीति मुहूर्त्तभागानयनार्थमेंकविंशति स्त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि (६३०) एषां सप्तषष्ट्या भागो ह्रियते लब्धा नवमुहूर्त्ता (९) शेषाः स्थिताः सप्तविंशतिः, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते जातानि चतुःसप्तत्यधिकानि षोड़शशतानि (१६७४), एषां
3
"