________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४१ '
शुद्धस्य च दशम्यां, प्रवर्तते पञ्चमी तु आवृत्तिः ५। .
एता आवृत्तयः, सर्वा माघमासे ॥४॥ पूर्व सूर्यस्य दश आवृत्तयः प्रदर्शिताः, अथैतासु दशसु सूर्यावृत्तिषु प्रथमायां वार्षिक्यामा वृत्तौ चन्द्रनक्षत्रयोगं प्रदर्शयन् सूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसोणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पढमं वासिक्किं' प्रथमां वार्षिकी वर्षाकाल सम्बन्धिनी श्रावणमासभाविनीमित्यर्थः 'आउहि' आवृत्ति सूर्यावृत्तिं 'चंदे' चन्द्रः 'केण णवखत्तेण' २ केन नक्षत्रेण सह स्थितः सन् 'जोएइ' युनक्ति प्रथमायां वार्षिक्यामावृत्तिं प्रवर्तयतीत्यर्थः ! इति गौतमेन पृष्टे भगवानाह--'ता' तावत् 'अभिइणा' अभिजिता अभिजिन्नक्षत्रेण सह स्थितः सन् युनक्तीति भावः । तत्कि परिपूर्णे अभिजिति न्यूने वा योगं युनक्तीति विशिनष्टि'अभिइस्स, इत्यादि 'अभिइस्स, अभिजिन्नक्षत्रस्य 'पढमसमएणं' प्रथमसमये 'ण' इति वाक्यालकारे । एतत् कथमवसीयते ? इति चन्द्रनक्षत्रयोगपरिज्ञानार्थं वृद्धोक्ताः सप्त करणगाथाः प्रदर्श्यन्ते
"पंचसया पडिपुण्णा, तिसत्तरा नियमसो मुहुत्ताणं । छत्तोस विसटिभागा, छच्चेव य चुण्णिया भागा ॥१॥ आउट्ठीहि एगणियाहिं गुणिओ हविज्ज धुवरासी । एयं मुहुत्तगणिय, एत्तो वोच्छामि सोहणणं ॥२॥ अभिइस्स नव मुहुत्ता, विसट्ठिभागा य होंति चउवीस । छावट्ठीय समग्गा,भागा सत्तहि छेयकया ॥३॥ उगुणटुं पोट्टवया, तिसु चेव नवुत्तरेसु रोहिणिया । तिसु नवनउइएसु, भवे पुणव्वस्त्तरा फग्गू ॥४॥ पंचेव अउणपन्ना, समाइंउगुणत्तराई छच्चेव सोज्झाहि विसाहामुं, मूले सत्तेव चोयाला ॥५॥
अट्ठसयमुगुणवीसा,सोहणगं उत्तरा असाढाणं । . चउवीसं खलु भागा, छावट्ठी चुण्णीया भागा ॥६॥
एयाई सोहइत्ता, ज सेसं तं हवेज नक्खत्तं ।
- चंदेण समाउत्त, आउहीए उ बोद्धन्वं ॥७॥"इति । - छाया -पंचशतानि परिपूर्णानि त्रिसप्ततानि नियमशो मुहूर्तानाम् । .: पत्रिंशद् द्वाषष्टिभागाः, षडेव च र्णिका भागाः ॥१॥