SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्र ५४० तिथौ भवतीति प्रश्ने त्रिकं ध्रियते, तस्मिन् रूपोने कृते जातं द्विकम् , तेन त्र्यशीत्यधिकं शतं गुण्यते, 'जातानि पट्पष्टयधिकानि त्रीणि शतानि (३६६) अत्र द्विकेन त्र्यशीत्यधिकं शतं गुणित मिति द्विकं त्रिभिर्गुणनीयं जाताः पद, ते रूपाधिकाः क्रियन्ते जाताः सप्त ते पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रिसप्तत्यधिकानि त्रीणि शतानि (३७३), एपां पञ्चदशभिर्भागे हते लब्धा चतुर्विशतिः (२४) शेपास्तिष्ठन्ति त्रयोदश । तत आगतम्-युगे तृतीया आवृत्तिः श्रावणमास भाविनीनां मध्ये तु द्वितीया चतुर्वि शति पर्वात्मके प्रथमे सवत्सरे व्यतिक्रान्ते श्रावणमासे बहुलपके त्रयोदश्यां तिथौ भवतीति ३।एव मग्रेऽपि अन्यासु आवृत्तिषु करणवशाद् विवक्षितास्तिथय आनेतव्याः । ताश्चमा:-युगे चतुर्थी माघमासमाविनीनां मध्ये तु द्वितीया माघमासे शुक्लपक्षे चतुझं तिथौ भवति ४। पञ्चमी श्रावणमासभाविनीनां मध्ये तु तृतीया श्रावणमासे शुक्ल पक्षे दशम्यां तिथौ ५। पष्ठीमाघमासभाविनीनां मध्ये तु तृतीया माघमासे बहुलपक्षे प्रतिपदि । सप्तमी श्रावणमासभाविनीनां मध्ये तु चतुर्थीश्रावणमासे बहुलसप्तम्यां तिथौ ७, अष्टमी माघमासभाविनीनां मध्ये तु चतुर्थी माघमासे बहुलपक्षे त्रयोदश्यां तिथौ ८, नवमी श्रावणमास भाविनीनां मध्ये तु पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थी तिथौ ९, दशमीचावृत्तिः श्रावणमास भाविनीनां मध्ये तु पञ्चमी माघमासे शुक्लपक्षे दशम्यां तिथौ भवतीति १०। एताश्चतुर्थात आरभ्य दशमी पर्यन्ता आवृत्तयः संग्रहरूपे प्रदर्शिताः । अथतेषां पञ्चानां श्रावणमासभाविनीनां, पञ्चाना तु माघमासभाविनीनामावृत्तीनां तिथयश्चतसृभिर्गाथाभिः प्रदर्श्यन्ते "पढमा बहुलपडिवए १, विइया बहुलस्स तेरसी दिवसे २, । सुद्धस्स य दसमीए ३, वहुलस्स य सत्तमीए ४ उ ॥१॥ • “सुद्धस्स चउत्थोए' पवत्तए पंचमी उ आउट्टी ५। एया आउट्टीओ सन्याओ सावणे मासे ॥२॥ वहुलस्स सत्तमीए १, पढमा सुद्धस्स तो चउत्थीए २, बहुलस्स य पाडिवए३, बहुलस्स य तेरसीदिवसे ४ ॥३॥ मुहस्स य दसमीए, पवत्तए पंचमी उ.आउट्टी ५। एया आउट्टीओ, सन्चाओ माहमासम्मि ॥४॥ छायाः-प्रथमा बहुलप्रतिपदि, द्वितीया बहुलस्य त्रयोदशी दिवसे २। शुद्धस्य दशम्यां ३, बहुलस्य च सप्तम्यां तु ४ ॥१॥ शुद्धस्य चतु. ५, प्रवत्तेते पञ्चमी तु आवृत्तिः । एता आवृत्तयः सर्वा श्रावणे मासे ॥२॥ बहुलस्य सप्तम्यां प्रथमा १, शुद्धस्य ततश्चतुर्थ्याम् २। , बहुलस्य च प्रतिपदि ३, बहुलस्य च त्रयोदशी दिवसे ॥शा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy