________________
चन्द्राप्तिप्रकाशिकाटीका प्रा १२ सू४.
ऋतुवक्तव्यता प्रतिपादनम् ५६३ "पाडिवय ओमरत्ते, कइया विइया समप्पिहीइतिही । ' विइया एवा तइया, तइया-एवा चउत्थीउ ॥१॥ सेसासु चेवका हिट, तिहिम ववहार गणियदिहासु । सुहुमेण परिल्लतिही, संजायइकम्मि पन्चम्मि ॥२॥ रूवहिगा उ ओया विगुणा पन्ना हवंति कायव्या ।
एमेव हवइ जुम्मे, एक्कतीसा जुया पव्वा ॥३॥. छाया-प्रतिपदि अवमरात्रे कदा द्वितीया समापयति तिथिः ।
द्वितीयायां वा तृतीया, तृतीयायां वा चतुर्थी तु ॥१॥ शेपासु चैव करिष्यति तिथिपु व्यवहारेगणितदृष्टासु । सूक्ष्मेण पर तिथिः, संजायते कस्मिन् पर्वणि ॥२॥ रूपाधिकास्तु औजस्यः, द्विगुणानि पर्वाणि भवन्ति कर्त्तव्यानि ।
एव मेव भवति युग्मायाम् एकत्रिंशयुता पर्वाणि ॥३॥ इति ! व्याख्या चैषाम्-'पाडिवयओमरत्ते' प्रातिपदि प्रतिपत् सम्बन्धिनि अवमरात्रे इति अवमरात्रीभूतायां प्रतिपदायां सत्यां 'कइया' कदा कस्मिन् पर्वणि पक्षे 'विइया समप्पिही तिही' द्वितीया तिथिः समाप्स्यति 2 प्रतिपद्दया सह द्वितीया तिथिरेकस्मिन्नहोरात्रे कदा समाप्तिमेष्यति? इति प्रश्नः । एवम्-'विइया एवा तदया' द्वितीयायामवमरात्रीभूतायां वा तृतीया तिथिः कदाकस्मिन् पर्वणि ' 'तइयाए चउत्थीउ, तृतीयायामवरात्रीभूतायां चतुर्थी तिथिः कस्मिन् पर्वणि समास्यति ८ ॥१॥ एवम्-'सेसासु चेव कहिइ तिहीसु ववहारगणियदिहासु' व्यवहारगणितदृष्टास लोकप्रसिद्धगणितेन परिभवितासु शेषासु चतुर्थ्यादितिथिषु अवमरात्री भूतासु पञ्चम्यादितिथयः कस्मिन् कम्मिन् पर्वणिं समप्तिमेष्यतीति प्रश्नं शिष्यः 'काहिई' इति करिष्यति, तथाहि-चतुर्यो पञ्चमी, पञ्चम्यां षष्टी, पष्ठयां सप्तमी, सप्तम्यामष्टमी, अष्टम्यां नवमी, नवम्यां दशमी, दशम्यामेकादशो, एकादश्यां द्वादशी द्वादश्यां त्रयोदशी, त्रयोदश्यां चतुर्दशी चतुर्दश्यां-पञ्चदशी पञ्चदश्यामवमरात्रीभूनायां प्रतिपदा तिथिः कस्मिन् पर्वणि समाप्स्यतोति शिष्यः प्रश्नं करिष्यतीतिभावः । यथा-'सुहुमेण' सूक्ष्मेण श्लक्ष्णेन प्रतिदिवसमेकैकद्वापष्टिभागरूपेण भागेन परिहीयमानायां तिथौ 'परिल्लतिही' पूर्वस्या अवमरात्री भूतायास्तिथे ख्यवहिततया परा परातिथिः, 'संजायइ कम्मि पव्वम्मि' कस्मिन् पर्वणि समाप्ता संजायते । इति प्रश्नस्वरूपम् ॥२॥ अत्राचार्य आह-रूवाहिगाउ' इत्यादि, 'रूवाहिगाउ' रूपाधिकास्तु-इह यास्तिथयः पृष्टास्ता द्विविधा भवन्ति-ओजो रूपा., युग्मरूपाश्च,-तत्र ओज इति विषमं, युग्ममिति समम् । तत्र यास्तिथयः 'ओया' औजस्यः ओजोरूपा विषमा इत्यर्थः