________________
चन्द्रनप्तिप्रकाशिकाटीका प्रा.१२ सू.४
ऋतु वक्तव्यताप्रतिपादनम् ५२१.. एक्कंतरियामासा, तिहीय जासु ता उऊ समप्पंति । आसाढाईमासा, भद्दवयाई तिही नेया ॥१॥ छाया-एकान्तरिताः मासाः तिथयश्च यासु ते ऋतवः समाप्नुवन्ति । आषाढादयो मासाः, भाद्रपदादिकास्तिथयो ज्ञेयाः ॥१०॥" इति
अस्या व्याख्या-इह सूर्यर्तुचिन्तायां मासा माषाढादयो विज्ञेयाः, आपाढमासादारभ्य ऋतूनां प्रथमतः प्रवर्त्तमानत्वात् । तिथयः सर्वा अपि भाद्रपदाद्याः भाद्रपदादिषु मासेषु प्रथमादीनामृतूनां परिसमाप्तत्वात् । तत्र येषु मासेषु यासु च तिथिषु ऋतवः प्रावृडादयः सूर्यसम्बन्धिनः परिसमाप्नुवन्ति ते आपाढादयो मासाः, ताश्च तिथयो भाद्रपदाद्याः भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता ज्ञातव्याः, तथाहि-प्रथम ऋतुर्भाद्रपदमासे समाप्तिमेति, तत एकं मासमश्वयुग् लक्षणमवान्तरीले मुक्त्वा कर्तिके मासे द्वितीय ऋतुः परिसमाप्तिमेनि । एवं तृतीयः पौषमासे, चतुर्थः फाल्गुने मासे, पञ्चमो वैशाखे मासे, पष्ट पाढे मासे । एवं शेपा अपि ऋतव एष्वेव षट्सु मासेषु एकान्तरितेपु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेपु । तथा तिथिमधिकृत्य प्रथमऋतुः प्रतिपदिसमाप्तिमेति, द्वितीयस्तृतीयायाम्, तृतीयः पञ्चम्याम्, चतुर्थः सप्तम्याम् पञ्चमी नवम्याम्, पेष्ठ एकादश्याम, सप्तमस्त्रयोदश्याम् अष्टमः पञ्चदश्याम् एते सर्वेऽपि तवो बहुलपक्ष। ततो नवम ऋतुः शुक्लपक्षे द्वितीयायाम् , दशमश्चतुर्थ्याम् , एकादशः पष्ठ्याम्, द्वादश्योऽष्टम्याम् त्रयोदशो दशम्याम् चतुर्दशो द्वादश्याम् पञ्चदशश्चतुर्दश्याम् । एते सप्तऋतवः शुक्लपक्षे । एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्या भवन्ति । तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतको द्वितीये युगाड़े भवन्ति, तथाहि-पोडशऋतुर्वहुलपक्षे प्रतिपदि, सप्तदशस्तृतीयायाम् , अष्टादश पञ्चम्याम् एकोनविंशतितमः सप्तम्यास् विंशतितमो नवम्यामू एकविंशतितम एकादश्याम द्वाविंशतितमस्त्रयोदश्यास् , त्रयोविंशतितमः पञ्चदश्याम् । एते षोडशादयस्त्रयोविंशति पर्यन्ता अष्टौ बहुलपक्षे ततश्चतुर्विशतितमः शुक्लपक्षे द्वितीयायाम् , पञ्चविंशतितमश्चतुर्थ्याम् षड् विंशतितमः षष्ठ्याम् सप्तविंशतमो द्वादश्याम् , त्रिंशत्तमश्चतुर्दश्याम् । तदेवमेते सर्वेऽपि ऋतवो युगे मासेष्वेकान्तरितेषु एवं तिथिष्वपि चैकान्तासु समाप्ता भवन्ति । एतेषां च ऋतूनां चन्द्रनक्षत्रयोगपरिज्ञानार्थ सूर्यनक्षत्रयोगपरिज्ञानार्थं च वृद्धः करणगाथात्रयं प्रोक्तं तत् प्रदर्श्यते
"तिन्नि सया पंचहिगा, अंसा छेओ सयं च चोत्तीसंएगाइविउत्तरगुणो धुवरासी होइ नायव्यो ॥१॥ सत्तट्ठी अद्धखिचे दुगतिगगुणिया समे वियढखेत्ते । अट्ठासीई पुस्से, सोम अभिइम्मि वायाला ॥२॥ एयाणि सोहइचा, जं सेसं तं तु होइ नक्खतं । रवि सोमाणं नियमा तीसाबि उउ समत्तीस ॥३॥