________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.२ पञ्चसंवत्सराणांसंमेलनेरात्रिंदिवपरिमाणम् ५०५ मुहूर्तस्य, तथा 'वावट्ठिभागं च सत्तट्टिहा छित्ता' एकं च द्वाषष्टिभागं सप्तपष्टिधा छित्त्वाविभज्य तत्सत्काः 'दुवालस चुणिया भागा' द्वादश चूर्णिका भागाः (१) सप्तषष्टिभागाः (११५० ४१२) 'मुहत्तग्गेण' मुहूर्ताप्रेण प्रक्षेप्य मुहूर्तपरिमाणेन 'आहिए' आख्यातंकथितम् नो युगमुहूर्त्तादिषु एतावन्मुहूर्त्तादि प्रक्षेपणेन परिपूर्ण युग मुहूर्तपरिमाणेन भवति । तथाहि-नोयुगप्रक्षेप्याणामष्टात्रिशतो रात्रिन्दिवानां रात्रिन्दिवस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिशता गुणने शेषमुहूत्तदिप्रक्षेपे च यथोक्तं (११५० १७) नोयुगम् प्रक्षेप्य मुहूत्तदिपरिमाण भवति । एतेषां (११५०५४।१२) नोयुगमुहूत्र्तादिपरिमाणे (५३७४९ ५७५४) प्रक्षेपणेन परिपूर्ण युगस्य मुहूर्तस्य परिमाणं नवशताधिकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) मुहूर्तानां भवति । एपामेकस्य रात्रिन्दिवस्य त्रिशन्मुहूर्तात्मकत्वात् त्रिंशता भागहरणे यथोक्तं परिपूर्णयुगरात्रिन्दिवपरिमाणं (१८३०) नायते, इति । तदेव सूत्रकारः प्रदर्शयति- 'ता केवइयं' इत्यादि, 'ता' तावत् 'केवइयं कियत्कं कियत्परिमितं 'जुगे' युगं परिपूर्ण युगं 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिव परिमाणेन 'आहिए' आख्यातम् 'ति वएज्जा' इति वदेत् कथयतु हे भगधन् ? । भगवानाह-'ता अट्ठारस' इत्यादि 'ता' तावत् 'अट्ठारसतीसाई राईदियसयाई भष्टादश त्रिंशानि त्रिशदधिकानि अष्टादश रात्रिन्दिवशतानि (१८३०) 'राइंदियग्गेणं' रात्रिन्दिवाण परिपूर्ण युगं 'आहिए' आख्यात कथितम् 'ति वएज्जा' इति वदेत् कथयेत् वशिष्येभ्य इति ।
अथ परिपूर्णयुगस्य मुहूर्तपरिमाणविषयकं प्रश्ननिर्वचनसूत्रमाह-'ता से णं केवइए' इत्यादि, 'ता' तावत् ‘से गं' तत्खलु परिपूर्ण युगं 'केवइए' कियत्कं कियत्परिमितं 'मुहत्तग्गेणं' मुहूर्ताग्रेण 'आहिय आख्यातं 'ति वएज्जा' इति वदेत् वदतु हे भगवन ! भगवानाह- 'ता चउप्पण्णं' इत्यादि, 'ता' तावत् 'चउप्पण्णं मुहुत्तसहस्साई' चतुष्पञ्चाशन्मुहूर्त्तसहस्राणि 'णवयमुहत्तसयाई' नव च मुहूर्तशतानि (५४९००) 'मुहुत्तग्गेणं' मुहूर्ताप्रेण 'आहिए' आख्यातम् 'ति वएज्जा इति वदेत् स्वशिष्येभ्य इति ।
६४