SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-१ सू०४ परिपूर्णपञ्चदशमुहर्तरात्रिन्दिवयोरभावनि० ३१ कशतत्रयसंख्यकमुहूर्त्तकपष्टिभागान् इखेत्तस्स' रात्रिक्षेत्रस्य रात्रिभागस्य 'निव्वु हित्ता' निर्वय॑ हापयित्वा तथा 'दिवसखेत्तस्स' दिवसक्षेत्रस्य दिवसभागस्य 'अभिवुढित्ता' अभिवर्ध्य 'चारं चरई' चारं चरति 'तया णं' तदा खलु 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षाप्तः अत एव 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः ततः परमाधिक्याभावात् 'अट्ठारसमुहुत्ते' अष्टादशमुहर्तः 'दिवसे भवई' दिवसो भवति, तथा 'जहणिया' जन्यिका सर्वली ततः परं लघुत्वाभावात् 'दुवालसमुहुत्ता' द्वादशमुहूर्ता 'राई भवइ रात्रिर्भवति, 'एस णं' एतत् खलु-'दोच्चे छम्मासे' द्वितीयं पण्मासं जातम् । 'एस णं' एतत् खलु 'दोच्चस्स छम्मासस्स' द्वितीयस्य षण्मासस्य 'पज्जवसाणं' पर्यवसानम् अन्तिममहोरात्रमिति । साम्प्रतमुपसंहरति-'इइ खल' इत्यादि । 'इइ' इति-यस्मादेवं तस्मात् कारणात् 'खलु' निश्चितं 'तस्स' तस्य पट्पष्टयधिकशतत्रयाहोरात्रपरिमितस्य 'आइञ्चसंवच्छरस्स' मादित्यसंवत्सरस्य मध्ये 'एवं' इति अनेन पूर्वोक्तप्रकारण 'सई सकृत् एकवारं 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति, तथा 'सई सकृत् एकवारं 'अद्वारसमुहुत्ता राई भवई' अष्टादशमुहुर्ता रात्रिभवति । 'सई' सकृत् एकवारं 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्तो दिवसो भवति सई सकृत एकवारं 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहर्ता रात्रिर्भवति । तथा 'पदमे छम्मासे' प्रथमे षण्मासे 'अस्थि अद्वारसमुहत्ता राई अस्ति अष्टादशमुहर्ता रात्रिः सर्वाभ्यन्तरमण्डलाद्वाह्यमण्डलं प्राप्ते सूर्ये रात्रेधुद्धिसद्भावात् , सा च प्रथमषण्मासस्य अन्तिमेऽहोरात्रे भवति किन्तु 'नत्थि अट्ठारस मुहत्ते दिवसे भवई' नत्वष्टादशमुहुत्तों दिवसो भवति तदा दिवसस्य हानिसद्भावात । तथा तस्मिन्नेव पण्मासे 'अस्थि दुवालसमुहुत्ते दिवसे' अस्ति द्वादशमुहुत्तों दिवसः, स च प्रथमपण्मासस्य अन्तिमेऽहोरात्रे भवति, किन्तु 'नस्थि दुवालसमुहुत्ता राई भवई' न तु द्वादशमहत रात्रिर्भवति । एवम्-'दोच्चे छम्मासे' द्वितीयस्मिन् षण्मासे सूर्यस्य पुनः सर्वबाह्य मण्डलात् सर्वाभ्यन्तरमण्डलं प्रति गमनलक्षणे 'अस्थि अट्ठारमुहुत्ते दिवसे' अस्ति अष्टादशमुहुत्तों दिवमः तदा दिवसस्य वृद्धिसद्भावात् , किन्तु 'णस्थि अट्ठारसमुहुत्ता राई भवई' न त्वष्टादश मुहुर्ता रात्रिभवति तदा रात्रैर्वृद्धयसद्भावात् । तथा 'अस्थि दुवालसमुहुत्ता राई' अरित द्वादश मुहर्ता रात्रिः तदा रात्रेानिसद्भावात् , किन्तु 'नत्थि दुवालसमुहुत्ते दिवसे भवई' न तु द्वादश मुहर्तो दिवसो भवति तदा दिवसस्य हान्यसद्भावात् । तथा 'पढमे वा छम्मासे दोच्चे वा छम्मासे' प्रथमे वा षण्मासे द्वितीये वा पण्मासे प्रथमद्वितीयरूपोभयोरपि पण्मासयोः 'णत्थि पण्णरसमुहुत्ते दिवसे' नास्ति पञ्चदशमुहूत्तों दिवसः, एवमेव 'णस्थि पण्णरसमुहुत्ताराई भवई' नैव पश्चदशमुहूर्ता रात्रिर्मवति, ‘णणत्थ' नान्यत्र 'राईदियाणं वदोवड्ढीए' रात्रिन्दिवानां
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy