________________
चन्द्रप्रशप्तिसूत्रे ५०० दियसयाई त्रीणि त्र्यशीतानि त्र्यशीत्यधिकानित्रीणि रत्रिन्दिवशतानि, 'एक्कवीसं च मुहुत्ता' एक विंशतिश्च मुहूर्ताः, 'अद्वारसवावद्विभागा' अष्टादशद्वापष्टिभागाः 'मुहुत्तस्स' एकस्य मुहूर्तस्य ( रा. मु./१८) 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः ' ३८३।२१६२ 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि-अभिवर्द्धितमासस्य परिमाणं (३१।२९।१७) सवत्सरस्य द्वादशसौरमासात्मकत्वाद् द्वादशभिर्गुण्यते, तत्र प्रथममेकत्रिंशदहोरात्रा द्वादशभिर्गुण्यन्ते जातानि द्विसप्तत्यधिकानि त्रीणि शतानि (३७२) अहोरात्राणाम्, तत एकोनत्रिंशन्मुहुर्ता द्वादशभिर्गुण्यन्ते, जातानि अष्टचत्वारिंशदधिकानि त्रीणि शतानि (३४८) मुहूर्तानाम्, तत एकस्याहोरात्रस्य त्रिंशन्मुहूर्तात्मकत्वा दहोरात्रानयनार्थमेषां त्रिंशता भागो हियते, लब्धा एकादश अहोरात्राः एते पूर्वोक्तायाम् (३७२) अहोरात्रसख्यायां प्रक्षिप्यन्ते जातं त्र्यशीत्यधिकं शतत्रयमहोरात्राणाम् (३८३), पूर्व त्रिंशता भागे हृते शेपाः स्थिता अष्टादश मुहूर्ताः, अथ च ये सप्तदश द्वापष्टिभागा मुहूर्तस्य, तेऽपि द्वादशभिर्गुण्यते, जाते चतुरुत्तरे द्वे शते (२०४), एतस्य राशे षिट्या भागो हरणीयः, हृते च भागे लन्धास्त्रयो मुहूर्ताः, ते प्राक्तनेषु शेषत्वेन स्थितेषु अष्टादशसु प्रक्षिप्यन्ते, तेन जाता एकविंशतिर्मुहूर्ताः (२१), द्वापष्टया भागे हृते ये शेषा अष्टादश ते (१८) एकस्य मुहूर्तस्य द्वापष्टिभागाः सन्ति, तत आगता यथोक्ता (३८३।२११८) अभिवद्धितसवत्सरस्य रात्रिन्दिवानां संख्येति । अथास्य मुहूर्तान् पृच्छति 'ता से णं' इत्यादि 'ता' तावत् 'से णं' स खलु अभिर्द्धितसवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहर्तपरिमाणेन 'आहिए' आख्यातः । 'तिवएज्जा इति वदेत् वदतु हे भगवन् ? । भगवानाह-'ता एक्कारस' इत्यादि, 'ता' तावत् 'एक्कारस मुहुत्तसहस्साई' एकादश मुहूर्त सहस्राणि, 'पंच य एक्कारसाइं मुहुत्तसयाई पञ्च च एकादशानि एकादशाधिकानि पञ्च मुहूर्तशतानि, 'अट्टारसवावद्विभागा' अष्टादश द्वापष्टि भागाः 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य(११५११५८) 'मुद्दत्तग्गेण' मुहुर्ताप्रेण 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । नथाहि-अभिवदिनसंवत्सरस्याहोरात्रादिपरिमाणम् (३८३।२१। 5) एकस्याहोरात्रस्य त्रिंश
महत्तान्मकत्वात् त्र्यशीत्यधिकं शतत्रयं त्रिंगता गुण्यते गुणयित्वा चोपरितना एकविंशति मुहर्ता स्तत्र प्रक्षिप्यन्ते, ततो जायते यथोक्ता (११५१११६) मुहूर्तसंख्येति ॥ सूत्रम् १ ॥