________________
चन्द्राप्ति काशिकाटीका प्रा १२ सू. १ नक्षत्रादिसंवत्सरसंख्यादिकम् ४९३ मुहूर्त्ता इत्यर्थः 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! । भगवानाह-'ता असयाई' इत्यादि, 'ता' तावत् 'असयाई अष्टशतानि 'एग्रणवीसाई' एकोन विशानि एकोनविंशत्यधिकानि 'मुहुत्ताणं' मुहूर्तानाम्, एकोन विंशत्यधिकाष्टशतमुहूर्ताः, 'मुहुत्तस्स' एकस्य च मुहर्तस्य 'सत्तावीसं च सत्तद्विभागा' सप्तविंशतिश्च सप्तपष्टिभागाः (८१९२७) 'मुहत्तग्गेणं' मूहुर्तात्रेण मुहर्तपरिमाणेन नक्षत्रमा स. 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् वदतु स्वशिष्येभ्य इति । तथाहि-नक्षत्रमासपरिमाणं सप्तविंशतिरहो
रात्राः. एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टि भागाः (२ इति पूर्व प्रदर्शितम् तत एते सप्तविंशतिरहोरात्राः सवर्णनार्थ सप्तपष्टया गुण्यन्ते, जातानि नवाधिकानि अष्टादशशतानि (१८०९), एपु चोपरितना एकविंशति सप्तपष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) सप्तपष्टिभागाः, एते मुहूर्त्तानयनार्थ त्रिंशता गुण्यन्ते जाताः चतुष्पञ्चाशत्सहस्राणि नवशतानि (५४९००) मुहर्तगतसप्तपष्टिभागाः, तत एतेषां सध्तपष्टया भागे हृतेलब्धानि-कोनविंशत्यधिकानि अष्टौ शतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तपष्ठि भागाः (८१९२७) सूत्रोक्ता लभ्यन्ते इति । 'ता' तावत् ‘एस णं' एषा खलु 'अद्धा' अद्धाकाल एव 'दुवालसखुत्तकडा' द्वादश कृत्वः कृता अत्र संवत्सरमासानां द्वादशात्मकत्वाद् द्वादशवारं कृता सती अद्धा 'णक्खत्ते संवच्छरे' एको नाक्षत्रः सवत्सरो भवति । अस्य रात्रिन्दिवानि पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् 'से णं' स खलु नक्षत्रसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन अस्य नक्षत्रसंवत्सरस्य कियन्तिरात्रिन्दिवानि भवन्तीत्यर्थः 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् वदतु | भगवानाहता 'तिण्णि सत्तावीसाइ राइंदियसयाई' त्रीणि सप्तविंशानि सप्तविंशत्यधिकानि रात्रिदिवश तानि, 'एक्कावन्नं च सत्तट्ठिभागा' एक पञ्चाशच्च सप्तपष्टि भागाः (३२७५१) 'राईदियस्स' एकस्य रात्रिन्दिवस्य, 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् । अत्र नक्षत्रमासरात्रिन्दिवपरिमाणं द्वादशभिर्गुणितं यथोक्तम् (३२७१-) नक्षत्रमासस्य रात्रिन्दिवानां परिमाणं भवतीति । अथास्य मुहूर्तसख्यां पृच्छति-'ता से णं' इत्यादि, 'ता' तावत् सेणं' सः नक्षत्रसंवत्सरः खल 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमा