________________
चन्द्रज्ञप्तिप्रकाशिका टीका प्रा० १-१ सू० ४ रात्रिन्दिवयोहानिवृद्धिमनिरूपणम् २७ मार्ग प्रति गच्छन् 'मूरिए' सूर्यः 'नव' नवं पूर्वसंवत्सरादन्यं 'सवच्छरं' संवत्सरं 'अयमाणे' अयन् प्राप्नुवन् तत्र प्रवर्त्तमान इत्यर्थः 'पढमें प्रथमे तद्विषयके माये 'अहोरत्तं सि' अहोरात्रे 'अभितराणंतरं' अभ्यन्तरानन्तरं सर्वाभ्यन्तरमण्डलात् द्वितीय 'मंडलं' मण्डलम् 'उवसंकमित्ता' उपसंक्रग्य तत्र स्थित्वा 'चार चरई' चारं चरति परिभ्रमति गतिं करोतीत्यर्थः । 'ता' तावत् 'जया णं' यदा खल 'सूरिए' सूर्यः 'अभितराणंतर मंडलं' अभ्यन्तरानन्तरं मण्डलं पूर्वोक्तं हितीयं मण्डलं 'उवसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु -'अट्ठारसमुहुत्ते' अष्टादशमुहूर्तः 'दिवसे भवई' दिवसो भवति किन्तु सः 'दोहि द्वाभ्यां 'एगसहिभागमुहुत्तेहि' एकपष्टिभागमुहर्त्ताभ्यां 'ऊणे' ऊनः न्यूनो भवति(१७ तथा 'राई' रात्रिः बालसमुहुत्ता' द्वादशमुहूर्ता भवति, सा च 'दोहि एगसद्विभागमुहुत्तेहि अहिया' द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामधिका भवति (१२ -२)कथमेतदित्याह-इह चैकं मण्डलमेकेनाहोरात्रेण सूर्यद्वयद्वारा परिसमाप्यते, प्रत्यहोरात्रं मण्डलस्य त्रिंशदधिकाऽष्टादशशतसंख्यका (१८३०) भागाः परिकल्प्यन्ते, तेषु एकैकः सूर्य एकैकं भागं दिवस क्षेत्रस्य रात्रिक्षेत्रस्य वा यथाकालं हापयिता वर्धयिता वा भवति, स च मण्डलगत एको भागस्त्रिंशदधिकाष्टादशशततमोऽन्तिमो भागो मुहूत्तैकष्टिभागेषु द्विभागरूपो भवति(२) तच्चेत्थम्-मण्डलस्य ते त्रिंशदधिकाष्टादशशतभागाः (१८३०) सूर्यद्वयमाश्रित्य एकेनाहोरात्रेण प्राप्यते, एकोऽहोरात्रश्च त्रिशन् मुहर्त्तप्रमाणो भवति, ते च त्रिंशन्मुहूर्त्ता एकैकसूर्याश्रयणेन सूर्य द्वयापेक्षया पष्टिर्मुहर्त्ता भवन्ति, ततस्त्रैराशिकगणितक्रमावसरः प्राप्तः, तथा च-यदि षष्टिमुहर्तेषु त्रिशदधिकाष्टादशशतभागा लभ्यन्ते तदा एकस्मिन् मुहूते कति मुह० भागाः-मुह. भागा लभ्यन्ते ! एवं भाजक-भाज्य-गुणकरूपराशित्रयस्थापना यथा-६० १८३०॥ १॥
अत्रान्त्येन एककरूपेण गुणकराशिना मध्यगतभाज्यराशिगुण्यते, भाजक भाज्य गुणकजातानि तान्येव त्रिंशदधिकाष्टादशशतानि (१८३०) एपामायेन पष्टि- राशिः गशि.- राशिः | रूपेण भाजकराशिना भागो हियते तदा लब्धाः सार्धत्रिंशद्भागाः (३०॥), एतावन्तो भागा एकस्मिन् मुहूर्ते लभ्यन्ते । स चैको मुहूर्त एकपष्टिभागीक्रियते, ते एकपष्टिभागाः साईत्रिंशता विभाज्यते तत आगतौ द्वौ । एवमेको भाग आगतः-द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्याम
अथ प्रकारान्तरमेतत्-त्र्यशीत्यधिकैकशताहोरात्रै (१८३)षण्णा मुहूर्तानां हानिर्वृद्धिर्वा भवति,