SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसत्रे व्याख्या-'ता' तावत् 'अयं णं' अयं खलु प्रत्यक्षोपलभ्यमानः 'जम्बूद्दीवे दीवे' जम्बूद्वीपो द्वीपः जम्बूद्वीपाभिधानो मध्यजम्बूद्वीपः, स कीदृशः ? इत्याह-सव्वदीवसमुदाणं सर्वद्वीपसमुद्राणाम् एतदतिरिक्तावशिष्टानां सर्वेषां दीपानां समुद्राणां च मध्ये 'सबभतराए' सर्वाभ्यन्तरः सर्वथाऽभ्यन्तरवर्ती 'जाव विसेसाहिए' यावत् विशेषाधिकः, अत्र यावत्पदेन "सन्चखुड्डागे वट्टे, तेल्लापूयसंठाणसंठिए बट्टे, रहचक्कवालसंठाणसंठिए बट्टे, पुक्खरवरकण्णियासंठाणसंठिए वट्टे, पडिपुण्णचंदसंठाणसंठिए जोयणसयसहस्समायामविक्खंभेणं तिन्नि जोयणसयसहस्साइंसोलस सहस्साइंदोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे अहावीसं च धणुसयं, तेरस य अगुलाई अद्धगुलं च किंचि" इति पाठः संग्राह्यः । तथा च छायासर्वक्षुल्लको वृत्तः, तैलापूपसंस्थानसंस्थितो वृत्तः, रथचक्रवालसंस्थानसंस्थितो वृत्तः, पुष्करवरकर्णिकासंस्थानसंस्थितो वृत्तः, प्रतिपूर्णचन्द्रसंस्थानसंस्थितः योजनशतसहस्रमायामविष्कम्मेन, त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविशतियोंजनशते (३१६२२७) त्रयः क्रोशाः, अण्टाविंशतिश्च धनुःशतम् , त्रयोदश च अङ्गुलानि, अर्धाङ्गुलं च किञ्चिद् इति विशेषाधिक इति सम्बन्धः 'परिक्खेवेण पण्णत्ते' परिक्षेपेण परिधिना प्रज्ञप्तः । स च-आयामविष्कम्भाभ्यां लक्षयोजनप्रमाणत्वात् सर्वेभ्यो लघुः, 'वट्टे' त्ति वृत्तः गोलाकारः, तत्परिधिश्च-सप्तविंशत्यधिकद्विशतोत्तरषोडशसहस्राधिकं लक्षत्रयं (३१६२२७) योजनानाम् , तदुपरि क्रोशत्रयम्, अष्टाविंशत्युत्तरमेकं शतं १२८ धनुषाम् पुनश्च त्रयोदशाङ्गुलानि किञ्चिद्विशेषाधिकमर्धमङ्गुलं चेतिपरिमिता । अस्य विशेषव्याख्याऽन्यत्र विज्ञेया । अस्मिन् जम्बूद्वीपे द्वीपे 'ता' इति तावत् 'जया ' यदा खलु यस्मिन् काले 'मूरिए' सूर्यः 'सबभंतरमंडलं' सर्वाभ्यन्तरमण्डलम् सूर्यसंचरणस्य सर्वमण्डलानि चतुरशीत्यधिकैकशत (१८४) संख्यकानि भवन्ति, तत्र यदा सूर्यः सर्वाभ्यन्तरमिति मेरोः पार्श्वस्य मण्डलं सर्वप्रथमं मण्डलमित्यर्थः 'उवसंकमित्ता' उपसंक्रम्य तत्रागत्य 'चारं चरई' चारं चरति-संचरति सायनकर्कसंक्रान्तिपूर्वदिवसे इति भावः "उत्तमकपत्ते' उत्तम. काष्ठाप्राप्तः पराकाष्ठाप्राप्तः, अत्र काष्ठाशब्दः प्रकर्षार्थवाचकस्तेन परमप्रकर्पप्राप्तः इत्यर्थः, अतएव 'उक्कोसए' उत्कर्षकः उत्कृष्टः यतोऽधिकोऽन्यो दिवसो न भवति स इति भावः 'अहारसमुहुने' अष्टादशमुहूर्त अष्टादशमुहूर्तपरिमितकालयुक्तः पत्रिंशद्घटिकायुक्त इत्यर्थः 'दिवसे भवई' दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता' द्वादशमुहर्ता द्वादशमुहूर्तपरिमिता चतुर्विशतिघटिकायुक्तेत्यर्थः 'राई भवई' रात्रिर्भवति जम्बूद्वीपे क्षेत्रविशेषे इति भावः । एष अहोरात्रः पाश्चात्यसूर्यसंवत्सरस्य पर्यवसानम् । ___अथ सूर्यस्य सर्वाभ्यन्तरमण्डलात् निष्क्रमणविषये प्राह--से निक्खममाणे इत्यादि, 'से' सः 'निक्खममाणे' निष्क्रामन् सर्वाभ्यन्तररूपप्रथममण्डलाबहिर्गमन
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy