________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा०प्रा.२२सू ८ च.सू. वा केन न पौर्णमासी समापयति ४४९ '
२३३५).
૨le ૭
त्रिंशत् सप्तपष्टिभागाः, (४६- ) तत एभ्य. षट्चत्वारिंशन्मुहूर्तेभ्यः (४६) पञ्चदशमुहर्ता अश्लेपायाः, त्रिंशन्महूर्त्ताश्च मघाया इति मिलित्वा पञ्चचत्वारिंशन्मुहूर्ताः (४५) शोध्यन्ते, स्थित पश्चादेको मुहूर्न. (१) शेपा अट्टास्त एव, तथाहि-एको मुहूर्तः परिपूर्णः एकस्य मुहूर्तस्य च त्रयोविंशतिषष्टिभागा', एकस्य च द्वापष्टिभागस्य पञ्चत्रिशत् मप्त्पष्टि भागाः (१ इति पूर्वफाल्गुनी नक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात् एप पूर्वोक्तो राशिस्त्रिंशन्मुहर्तभ्यः शोध्यते । तत आगतम् पूर्वाफाल्गुनोनक्षत्रस्याप्टाविंशती मुहूर्तेपु, एकस्य च मुहूर्तस्याष्टात्रिंशति द्वापष्टिभागेपु, एकस्य च हापष्टिभागस्य द्वात्रिशति सप्तपप्टिभागेपु (२८-३८-३२) शेपेपु सूर्यः प्रथमां पौर्णमासी परिसमापति । एते च सूर्यमुहर्ताःसन्ति, एवम्भूतैश्च सूर्यमुहूत्र्तस्त्रिंशसंख्यकैः संमिलितैनयोदशरात्रिन्दिवानि, तदुपरि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गतेकदिवसभागगणना भवति, शपस्थितदिवसगणना च पूर्वाफाल्गुनीनक्षत्रस्य स्वयं कर्त्तव्या एवमग्रे उत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगे भावना कर्तव्येति ।
द्वितीयायाः पौर्णमास्याश्चन्द्रयोगं पृच्छति-'ता एएसिणं' इत्यादि, 'ता तावत् 'एएसिणं एतेषां पूर्वोक्तानां 'पंचण्हं संवच्छराण' पञ्चानां सवत्सराणां मन्ये 'दोच्चं पुण्णमासिणिं' द्वितीयां पौर्णमासी 'चंदे चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह युक्तः सन् 'जोएइ' युनक्ति ? । एवं गौतमेन पृष्टे भगवानाह-'ता' तावत् 'उत्तरापोवयाहिं' उत्तराप्रोष्ठपदाभ्याम् , अत्रापि उत्तराप्रोष्ठपदानक्षत्रस्य द्वितारकत्वाद् द्विवचनम् , तयोश्च 'उत्तरापोवयाणं' उत्तराप्रोष्ठपदयोः उत्तराभाद्रपदा नक्षत्रस्य 'सत्तावीसं मुहुत्ता' सप्तविंशतिर्मुहूर्ताः 'चोडस य वावद्विभागा मुहत्तस्स' चतुर्दशच द्वापष्टिभागा एकस्य मुहूर्तस्य, तथा 'वावद्विभागं च सत्तहिहा छित्ता' द्वापष्टितमं भागं च सप्तपप्टिवा छित्त्वा एकस्य द्वापष्टिभागस्य च सप्तपष्टिभागान् कृत्वा तत्सम्बन्धिनः 'चउसट्टी चुणियाभागा' चतुष्पष्ठिश्चूर्णिका भागा• शेपास्तिष्ठन्ति तदा द्वितीयां पौर्णमासी चन्द्रः परिसमापयति । कथमित्यत्राह-स एव ध्रुवराशि:-६६।५।१। द्वितीय पौर्णमासीपृच्छायां द्वाभ्यां गुण्यते, जातं द्वात्रिंशदुत्तरं शतं (१३२) मुहूर्तानाम् , एकस्य च मुहूर्तस्य दश द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागौ (१३२.१.२)। ततः पूर्वक्रमेणाभिजिन्नक्षत्रस्य नवमुहूर्ताः एकस्य च मुहूर्तस्य चतुर्विशति-पष्टिभागाः एकस्य च द्वापष्टिभा गस्य सम्बन्धिनः षट्षष्टिः सप्तपष्टिभागाः (९-२४।६६) शोध्यन्ते, स्थिता शेपा द्वाविंशत्यधिकशतसख्यकाः (१२२) मुहूर्ताः,
५७
दश६७
श६७