________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. २२ सू. ४ पौर्णमास्यऽमावास्यानिरूपणम् ४३३ तृतीयां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् देशे चन्द्रः द्वितीयां पौर्णमासी युनक्ति तस्मात् खलु पौर्णमाली स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं भागान् उपादाय, अत्र खलु तृतीयां पौर्णमासी चन्द्रः युनक्ति। तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वादशां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः तृतीयां पौर्णमासी युनक्ति तस्मात् पौर्णमासी स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वे अष्टाशीते भागशते उपादाय , अत्र खलु स चन्द्रः द्वादशां पौर्णमासी युनक्ति । एवं खलु एतेन उपायेन तस्मात् तस्मात् पौर्णमासी स्थानात् मण्डलं चतुर्विंशेन शतेन छित्त्वा द्वात्रिंशत२ भागान् उपादाय तस्मिन् तस्मिन् देशे तां तां पौर्णमासी चन्द्रः युनक्ति । तावत् पतेषां खलु पञ्चानां संवत्सराणां चरमां द्वापष्टि पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत् जम्बूद्वीपस्य खलु द्वीपस्य प्राची प्रतीच्यायतया उदीची-दक्षिणायतया जीवया मण्डलं चतुर्विशेन शतेन ठित्वा दाक्षिणात्ये चतुर्भागमण्डले सप्तविंशतिचतुर्भागान् उपादाय अष्टाविंशतिभागं विशतिधा छित्त्वा अष्टादश भागान् उपादाय विभि भांगै द्वाभ्यां च कलाभ्यां पाश्चात्यं चतुर्भागमण्डलम् असम्प्राप्तः, अत्र खलु चन्द्र चरमां द्वापष्टिं पौर्णमासी युनक्ति ॥ सूत्र ॥४॥
___ व्याख्या- भगवानाह-'तत्थ खलु' तत्र युगे खलु 'इमाओ' इमाः वक्ष्यमाणस्वरूपाः 'वावटिं' द्वापष्टि 'पुण्णमासिणीओ'पौर्णमास्यः तथा 'वावहि द्वापष्टिरेव 'अमावासाओ' अमावास्याः 'पण्णत्ताओ' प्रज्ञप्ताः । भगवता एवं प्रोक्त गीतमः प्रश्नयति 'ता एएसिणं पंचण्हं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेपां चन्द्रादीनां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'पढमं प्रथमां 'पुण्णमासिणि' पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएड' युनक्ति परिसमापयतीति प्रश्नः । उत्तरमाह 'ता' तावत् 'जसिणं देसंसि' यस्मिन् खलु देशे 'चंदे' चन्द्रः 'चरिमं चरमामन्तिमां पाश्चात्ययुगपर्यन्तवर्तिनी 'वासर्टि' द्वापष्टिं द्वापष्टितमां 'पुण्णमा सिणी' पौर्णमासी 'जोएइ' युनक्ति परिसमापयति 'ताओ णं' तस्मात् खलु 'पुण्णमासिणिट्टीणाओ, पौर्णमासी स्थानात् चरम द्वापष्टितमपौर्णमासी परिसमाप्तिस्थानात् परतः 'मंडलं' 'चउन्चीसेणं सएण' चतुर्वि शेन शतेन चतुर्विशत्यधिकेन शतेन (१२४) 'छित्ता' छित्वा विभज्य 'बत्तीसं भागे' द्वात्रिंशतं भागान द्वात्रिंगसंख्यकानू भागान् 'उवाइणाचित्ता' उपादाय गृहीत्वा द्वात्रिंशद्भागग्रहणानन्तरं 'एत्थ णं' अत्र खल द्वात्रिंशद्भागरूपे देशे से चंदे स चन्द्रः 'पद पुण्णमासिणि' प्रथमां पौर्णमासी 'जोएइ' युनक्ति तां पौर्णमासी परिसमापयतीति । पुनः प्रश्नयति-'ता' तावत् 'एएसि गं' एतेपां खलु पूर्वोक्तानां 'पंचण्डं संवच्छराणं' पञ्चानां संवत्सराणंमध्ये 'दोच्चं 'पुण्णमासिणि' द्वितीयां पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे 'जोएइ' युनक्ति परिसमापयति ? उत्तरमाह-जंसि णं देसंसि' यस्मिन् खलु देशे 'चंदे' चन्द्रः 'पढमं 'पुण्णामसिणि' प्रथमां पौर्णमासी 'जोएइ' युनक्ति परिसमापयति 'ताओ " तस्मात् खेल पुण्णमासिणिहाणाओ' पौर्णमासीस्थानात् प्रथम पौर्णमासीपरिसमाप्तिस्थानात् परतः 'मंडलं'