________________
चन्द्रशप्तिप्रकाशिका टीका प्रा. १० प्रा० प्रा. २२ सू. १ नक्षत्रस्वरूपनिरूपणम् ४२३ मविष्कम्भेण तथा योलमाः, पोडशसहस्राणि सप्तविंशत्यधिकं शतद्वयंच योजनम् त्रयः क्रोशाः, अष्टाविंशत्यधिकशतधनुपि, साधत्रयोदशाङ्गुलानि किञ्चिद्विशेषाधिकानि, एतावत्परिमितः 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्तं' प्रज्ञप्तः कथितः । 'ता' तावत् तादृशे 'जंबहीवेणं दीवे' जम्बूद्वीपे खलु द्वीपे 'दो चंदा' द्वौचन्द्रौ 'पभासिसु' प्रभासतां वा भूतकाले, 'पभासेंतिवा' प्रभासेते वा वर्तमानकाले, 'पभासिस्मंति वा प्रभासियेते वाऽनागतकाले, अतीत वर्तमानानागतरूपे कालत्रयेऽपि प्रभासमानौ वर्त्तते इति भावः । एवं 'दो सरिया' द्वौ सूर्यो 'तर्विसु वा' अतपताम् 'तवेतिवा' तपतः तविस्तंतिवा' तपिण्यतः, द्वौ सूर्यावपि जम्बूद्वीपे कालत्रयेऽपि तपन्तौ वर्तत इति भावः । तथा पट्पञ्चाशत् नक्षत्राणि अष्टाविंशते नक्षत्राणां प्रत्येक द्विद्धिर्भावेन पटू पन्चाशत्संख्यकानि नक्षत्राणि 'जोय' योगं चन्द्रसूर्यैः सह युति 'जोइस्संतिवा', योन्यन्ति वा, पतानि नक्षत्राण्यपि कालनत्रये चन्द्रसूर्यः सह योगं युञ्जन्ति इति भावः । तान्येव दर्शयति'तं जहा' इत्यादि, तं जहा' तद्यथा तानि यथा-'दो अभिई' द्वौ अभिजितो, इत्यत आरभ्य द्वे उत्तगपाढे. इनि पर्यन्तानि द्विर्भािवेन पट् पञ्चाशन्नक्षत्राणि मूलसूत्रादेव विज्ञेयानीति । अथ नक्षत्राणां चन्द्रेण सह योगपरिमाणं प्रतिपादयन्नाह–'ता एएसिणं' इत्यादि । 'ता' तावत् 'एएसिणं' एतेषां खलु 'छप्पण्णाए णक्खत्ताणं' पट् पञ्चागतो नक्षत्राणा 'अस्थि णक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खलु ‘णव मुद्दुत्ते' नवमुहूर्त्तान् , 'सत्तावीस च सत्तहिमागे मुहत्तस्स' एकस्य च मुहर्तस्य सप्तविंशति सप्तपष्ठिभागान् यावत् 'चंदेण सद्धि जोयं जोएंति' चन्द्रेण साधू योगं युञ्जति । 'अस्थि नक्वत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खल 'पण्णरसमुहत्ते पञ्चदशमुहूर्तान् यावत् 'चंदेण सद्धिं जोयं जोएंति' चन्द्रेण साध योगं युञ्जन्ति । 'अस्थि नक्खत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेणं' यानि खलु 'तीसं मुहत्ते' त्रिंगन्मुहूर्तान् यावत् चंदेण सद्धिं जोयं जोएंति' चन्द्रेण सार्ध योगं युञ्जन्ति । 'अस्थि णखत्ता' सन्ति कानिचिन्नक्षत्राणि 'जेग' यानि खलु ‘पणयालीसं मुहुत्ते' पञ्चचत्वारिशन्मुहूर्तान् यावत् 'चदेण सद्धिं जोयं जोएति' चन्द्रेण साधं योगं युञ्जन्ति पूर्व भगवता सामान्येन नक्षत्र योगः प्रोक्तः, साम्प्रतं एतानेव चतुरो विषयान् गौतमः पृथक् पृथक्त्वेन पृच्छति- 'ता एएसि णं' इत्यादि, व्याख्या स्पष्टा।
' अथ भगवान् तानेव विषयान् पृथक् पृथग् रूपेण नामनिर्देशपूर्वकं स्पष्टयति-ता एएसि" इत्यादि, व्याख्या सुगमा अथ पट् पञ्चाशतो नक्षत्राणां मध्ये यानि यानि नक्षत्राणि सूर्येण सह योगं युञ्जन्ति तेषां सख्या नामानि च पृथक् पृथक् प्रदर्शयति—'ता एएसिणं' इत्यादि, व्याख्या पाठ सिद्धा। एषां विशेषव्याख्या पूर्वमस्यैव दशमस्य प्राभृतस्य द्वितीये प्रामृतप्राभृते कृतेति तत्र विलोकनीया । सूत्र ॥१॥