________________
४१४
चन्द्रप्रशप्तिसूत्रे ... ....... mm...armerreramarrrrrrrmmmmmmmmminerarmirm 'कडुओ' कटुकः गीतातपरोगादिदोपवहुल्येन परिणामदारुणः 'य' च तथा 'वहुउदओ' बहूदकः वृष्टि बहुको भवति 'तं संवच्छरं तं सवत्सरं 'चंद' चन्द्रं 'आहु' आहुः कथयन्ति । . अत्र चन्द्रानुरोधात् मासानां परिसमाप्तिर्भवति, न तु माससदृशनामनक्षत्रानुरोधादिति ॥२॥
____ अथ कर्मसंवत्सरलक्षणान्याह-'विसमं पवालिणो' इत्यादि, यस्मिन् संवत्सरे 'पवालिणो' प्रवालिनः वनस्पतयः 'विसम' विपमं विषमकालं कालवैपरीत्येन 'परिणमंति' परिणमन्ति प्रवालाकुरादिनया परिणाम प्राप्नुवन्ति तथा ते एव वृक्षादि वनस्पतयः 'अणु ऊहा' अनृतुपु स्व स्व ऋतु विपरीतकालेऽपि 'पुप्फफलं' पुष्पफलं पुष्पाणि फलानि च "दिति' ददति प्रयच्छन्ति स्व स्व ऋत्वभावेऽपि वृक्षाः फलन्तीत्यर्थः तथा 'वासं' वर्षे वृष्टिं 'न सम्मवासइ' न सम्यग् वर्षति यथाकालं वृष्टिरपि न भवति 'तं संवच्छरं' तं तादृशं संवत्सरं 'कम्म' कामै कर्मसवत्सरं 'आहु' आहुः कथयन्ति ॥३॥
__साम्प्रतं सूर्यसंवत्सरलक्षणान्याह-'पुढविदगाणं' इत्यादि । यस्मिन संवत्सरे 'पुढविदगाणं' पृथिव्युदकानां पृथिव्या उदकानां च, 'च तथा 'पुप्फफलाणं' पुष्पफलाना' पुप्पानां फलानां च 'ईस' रसम् 'आइच्चे' आदित्यः सूर्यः ददाति पृथिवीं परिमितसरसतापप्रभावान्मधुरादि रसबहुला, उदकं माधुर्यस्वास्थादि गुणयुक्तं पुष्पाणि चम्पकार्दानि सुगन्धबहुलानि, फलानि आम्रादीनि अतिशयरसयुक्तानि चादित्यः करोतीति भावः । तथा तत्प्रभावात् 'अप्पेण वि वासेण' अल्पेनापि वर्पण स्वल्प वृष्टयाऽपि तथाविधसरसजलप्रभावात् 'सस्सं सस्यं धान्यं 'सम्म' सम्यक् परिपूर्णतया 'निप्फज्जए' निप्पद्यते निष्पन्नं भवति, एतादृशं संवत्सरं आदित्यसंवत्सरं कथयन्ति ॥४॥
अभिवद्वितसंवत्सरलक्षणान्याह-'आउच्चतेयतविया' इत्यादि । यस्मिन्सवत्सरे 'खणलवदिवसा' क्षणलवदिवसा तत्र क्षणः कतिपयावलिकारूपः लवः सप्तस्तोकरूपः, तथाहि-असख्यातावालीकानामेक आनप्रान, सप्तानप्राणानामेकः स्तोकः सप्तस्तोकानामेको लवः, तादृशसमय लवरूपो लव तथा दिवसः अहोरात्रस्त्रिंशन्मुहूर्तात्मकः एते सर्वेऽपि तथा 'उऊ' ऋतवोऽपि पडपि ऋतवः 'आइच्चतेयतविया' आदित्यतेजस्तप्ताः सूर्यातपेन संतप्ताः ‘परिणमंति' परिणमन्ते प्रसरिता भवन्ति 'णिण्णथलए' निम्नम्थलान् 'पूरेइ' पूरयति पांशुना जलेन वा, त संवत्सरं 'अभिवढियं' अभिवर्द्धित 'जाण' जानीहि ॥५॥
इत्येवं लक्षणसंवत्सरो वर्णितः, साम्प्रतं शनैश्चरसंवत्सरमाह-'ता सणिच्छरेणं इत्यादि 'ता' तावत् 'सणिच्छरसंवच्छरेणं' शनैश्चरसवत्सरः खलु 'अट्ठावीसइविहे' अष्टाविंशति विधः अष्टाविशनि प्रकारकः 'पण्णत्त' प्रज्ञप्तः कथितः 'तं जहा' तद्यथा 'अभिई अभिजित 'सवणे' श्रवणः 'जाव यावत् 'उत्तरासाढा' उत्तरापाढा, अत्र यावत्पदेन धनिष्टात आरभ्य पूर्वापाढा पर्यन्तानि पञ्चविंशतिनक्षत्रनामानि सग्राह्याणि शनैश्चरमहाग्रहस्याप्टाविशति नक्षत्रपरिभ्रमणकालमाश्रित्य शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रोच्यते, तथाहि-अभिजिदिति