________________
४०८
चन्द्रप्राप्तिसूत्रे पूर्वोक्त पञ्चसंवत्सरगतमासाहोरात्रपरिमाणप्रतिपादिका वृद्धसम्प्रदायोक्तास्तिस्रो गाथा अत्र प्रदश्यन्ते, तथाहि
"अइच्चो खलु मासो, तीसं अद्धं च सावणो तीसं । चंदो एगुणतीसं विसद्विभागा य बत्तीसं ॥१॥ नक्खत्तो खलु मासो, सत्तावीसं भवे अहोरत्ता । असा य एक्कवीसा, सत्तट्टिकरण छेएण ॥२॥ अभिवढिओ य मासो, एक्कतीसं भवे अहोरत्ता । भागसय मेक्कवीसं, चउवीससएण छेएण ॥३॥ छाया-आदित्यः खलु मासः, त्रिंशद् अर्धं च (अहोरात्राः) सावनस्विंगत् ।
चान्द्र एकोनत्रिंशत् द्वापष्टिभागाश्च द्वात्रिंशत् ॥१॥ नाक्षत्रः खलु मासः, सप्तविंशतिभवेद् अहोरात्राः । अंशाश्च एकविंशतिः सप्तपष्टिकृतेन छेदेन ॥२॥ अभिवर्धितश्च मासः, एकत्रिंशद् भवेद् अहोरात्राः । ।
भागशतमेकविंशतिः चतुर्विशतिशतेन छेदेन ॥३॥ इन्ति । पुतैरेव पञ्चभिः संवत्सरैरेकं प्रागुक्तस्वरूपं युगं भवति, अथैतत् पञ्चसंवत्सरात्मकं युगं मासानधिकृत्य प्रमीयते, तत्र युगप्रागुक्तस्वरूपं यदि सूर्यमासैविभज्यते तदा पष्टि सूर्यमासात्मकं युगं भवति, तथाहि-सूर्यमासे सार्धास्त्रिंशद् अहोरात्रा भवन्ति, ते चैकस्मिन् युगे त्रिंशदधिकाष्टादशशतसंख्यकाः (१८३०) भवन्ति । कथमेतद् ज्ञायते ? इति चेदुच्यते-- अत्र युगे त्रयश्च संवत्सराः, द्वौचाभिवर्धितसंवत्सरी, एवं पञ्च संवत्सरा भवन्ति । एकैक स्मिंश्च चन्द्रसंवत्सरे चतुप्पञ्चाशदधिकानि त्रीणि शतानि (३५४) अहोरात्राणां भवन्ति, तदुपरि एकस्य चाहोरात्रस्य द्वादश द्वापष्टिभागाः (३५४-) भवन्ति, तत एष राशिः अकस्मिन् युगे चन्द्रसंवत्सराणां त्रिकत्वात् त्रिभिर्गुण्यते, जातानि द्वापट्याधिकानि दशशतानि अहोरात्राणाम्, एकस्य चाहोरात्रस्य पत्रिंशद् द्वापष्टिभागाः (१०६२२६), तथा – अभिवर्द्धित संवत्सरौ चात्र द्वौ, एकैकस्मिन् अभिवर्द्धितसंवत्सरे चाहोरात्राणां त्र्यशीत्यधिकानि त्रीणि शतानि, चतुश्चत्वारिंशच्च टापष्टि भागा एकस्याहोरात्रस्य (३८३४१) ततोऽमिवर्धितसवत्सरावत्र द्वाविति एष राशि म्या गुण्यते जातानि सप्तपष्टयधिकानि सप्तशतान्यहोत्राणाम्, एकस्य चाहोरात्रस्य पद
६२