________________
चन्द्राप्तिप्रकाशिक टीका प्रा. १० प्रा. प्रा. २० सू० ४
प्रमाणसंवत्सरनिरूपणम् ४०५
m
छाया--द्वे नाडिके (घटिके) मुहूर्तः, षष्टिः पुन नाडिकाः अहोरात्रः । पञ्चदश अहोरात्राः पक्षः त्रिंशद्दिनानि मासः ॥१॥ संवत्सरस्तु द्वादश मासाः, पक्षाश्च ते चतुर्विंशतिः । त्रीण्येवशतानि षष्टयधिकानि भवन्ति रात्रिन्दिवानां तु ॥२॥ एषस्तु क्रमो भणितः, नियमात् संवत्सरस्य कर्मणः । कर्म इति सावन इति च ऋतुरिति च तस्य नामानि ॥३॥ इति ।
अथ च यावता कालेन प्रावृडादयः षडपि ऋतवः परिपूर्णाः प्रवृत्ता भवन्ति तावत्परिमितः कालविशेष आदित्य संवत्सरो भवति ऋतुपरिवर्तनस्यादित्याधीनत्वात् उक्तञ्च
"छप्पि-उ ऊ परियट्टा एसो संवच्छरो उ आइच्चो" पडपि ऋतुपरिवर्ताः एप संवत्सरस्तु आदित्यः, इतिच्छाया |
लोके यद्यपि पष्टयहोरात्रप्रमाणः प्रावृडादिक ऋतुः प्रसिद्धाऽस्ति तथापि वस्तुतः स एकषष्टयहोरात्रप्रमाणा वेदितव्यः, तथैवोत्तर कालमव्यभिचारदर्शनात् , अतएव चास्मिन् आदित्यसंवत्सरे पट् षष्टयधिकानि त्रीणि शतानि (३६६) रात्रिन्दिवानां भवन्ति । आदित्यमासः सार्ध त्रिंशदहोरात्र परिमितो, भवति, तत एतत्परिमितैदशभिश्च मासैरादित्यसंवत्सरो भवति, उक्तंचान्यत्रापि पञ्चस्वपि संवत्सरेपु रात्रिन्दिवानां यथोक्तं परिमाणम् -
"तिन्नि अहोरत्तसया, छावट्टा भक्खरो हवइ वासो। तिन्ना सया पुण सहा कम्मो संवच्छरो होइ ॥१॥ तिन्नि अहोरत्तसया, चउ पन्ना नियमसो हवइ चंदो। भागो य वारसेव य वावट्टि करण छेएण ॥२॥ तिन्नि अहोरत्तसया, सत्तावीसा य होति नक्खत्ता । एक्कावन्नं भागा, सत्तट्टिकरण छेएण ॥३॥ तिन्नि अहोरत्तसया, तेसीईचेव होइ अभिवड्ढी ।
चोयालीसंभागा, वावटिकएण छेएण ॥४॥ छाया--त्रीणि अहोरात्रशतानि षट् षष्टयधिकानि (३६६) भास्करे भवति वर्षः । त्रीणि शतानि पुनः षष्टयधिकानि (३६०) अहोरात्राणां) कर्मसंवत्सरो भवति ॥१॥
त्रीणि अहोरात्रशतानि चतुष्पञ्चाशदधिकानि (३५४) (अहोरात्राणां) नियमतो भवति चान्द्रः (संवत्सरः)।
भागश्च द्वादशैव च द्वापष्टिकृतेन छेदेन(३५४१२) ॥२॥ .