SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४०२ चन्द्रप्रति 2 परिमितेषु मुहूर्त्तेपु, कस्य ' 'अहोरत्तस्स' अहोरात्रस्य तावत्परिमितेषु मुहूर्त्तेषु 'तं पव्वं' तत्पर्व समाप्तं भवति 'जाणे' जानीयात् । भागे हृते यो राशिः शेषोऽवतिष्ठते तं राशि मुहूर्तस्य भागरूपं जानीयात् यत् - एकस्य मुहूर्त्तस्य एतावन्तो भागा इति । तद्विवक्षितं पर्व चरमेऽहोरात्र सूर्योदयादनन्तर तावत्सु मुहूर्त्तेषु तावत्सुच मुहूर्त्तभागेषु व्यतीतेषु परिसमाप्तिं प्राप्तमिति ज्ञातव्यमिति ॥३॥ गता करणगाथा व्याख्या, अथ तद्भावना प्रदर्यते-अत्र कोऽपि पृच्छेत्-प्रथमं पर्वचरमेऽहोरात्रे कति मुहूर्तातिक्रमेण परिसमाप्तिं गतम् ? इति प्रश्ने प्रथमं पर्व पृच्छात्वेन एकः स्थाप्यते, अयमेकरूपो राशिः कल्योजः 'कलिओगे तेणउई' इति वचनादत्र त्रिनवतिः प्रक्षेपणीया, प्रक्षेपणे जाता चतुर्नवतिः (९४) अस्य चतुर्विंशत्यधिकेन शतेन (१२४) भागो ह्रियते एकस्मिन् युगे पूर्वाद्वे उत्तरार्धे च पर्वणां चतुर्विंशत्यधिकशतसंख्यकत्वात् । अत्र भाजकाद् भाज्यस्य स्तोकत्वाद् भागो न लभ्यते ततो यथासंभवं करणलक्षणं कर्त्तव्यम् तत्र चतुर्नवतेरर्थं क्रियते जाताः सप्तचत्वरिंशत् (४७), एते त्रिंशता गुण्यन्ते जातानि चतुर्दशशतानि दशोत्तराणि (१४१०) एषां द्वापष्ट्या भागो ह्रियते, लधा द्वाविंशतिर्मुहूर्त्ताः (२२) शेपातिष्ठन्ति षट्चत्वारिंशत् (४६), ततश्छेद्य - छेटकराश्योरर्धेनापवर्त्तना क्रियते तत्र छेधराशेः पट्चत्वरिंशद्रूपस्यार्ध त्रयोविंशतिः (२३) छेदकराशेर्द्वाषष्टिरूपस्यार्धमेकत्रिंशत् (३१) तेन लब्धास्त्रयोविंशतिरेकत्रिंशद्वागा तत आगतम् - प्रथमं पर्व चरमेऽहोरात्रे द्वाविंशर्ति मुहूर्त्तान, एकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् (२२-२३) अतिक्रम्य समाप्तिं ३१ ३२ गतमिति |१| अथ द्वितीयपर्वप्रश्ने प्राह — द्वितीयपर्वप्रश्नत्वेन द्विको त्रियते स च द्वापरयुग्मराशिरिति 'दावरम्मिं वावडी' इति वचनादत्र द्वापष्टिः प्रक्षिप्यते जाता चतुष्षष्टिः (६४) इयं चतुविंशत्यधिकशतेन भागं न लभते स्तोकत्वात् ततोऽस्या अर्ध क्रियते जाता द्वात्रिंशत् (३२) सा त्रिंशता गुण्यते जातानि पष्टयधिकानि नवशतानि (९६०) तेषां द्वापष्ट्या भागो ह्रियते लब्धाः पञ्चदश मुहूर्त्ताः (१५), पश्चात्तिष्ठति त्रिंशत्, ततश्छेद्यच्छेदकराश्योंरधेनापवर्त्तना करणे लब्धा पञ्चदश एकत्रिशद्भागाः (१५), तत आगतम् द्वितीयं पर्व चरमेऽहोरात्रे पञ्चदशमुहूर्त्तानाम् एकस्य च मुहूर्त्तस्य पञ्चदशैकत्रिंशद्भागानाम् [ ३१ " (१५–१५) अतिक्रमणे समाप्तं भवतीति ।२। ३१
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy