________________
चन्द्रप्राप्तिसूत्रे एसा णं अद्धा केवइएणं राईदियग्गेणं आहिएत्ति वएज्जा ? ता तिणि छावटे राइंदियसयाई राइंदियग्गेणं आहिएत्ति वएज्जा ।। सू० २॥
छाया- तावत् यदा खलु सूर्यः सर्वाभ्यन्तरात् मण्डलात् सर्ववाह्य मण्डलमुपसंक्रम्य चारं चरति, सर्ववाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति पषा खलु अद्धा कियता रात्रिंदिवाण आख्यातेति वदेत् । तावत् त्रीणि पट्पष्टिः रात्रिन्दिव. शतानि रात्रिन्दिवाण आख्यातेति वदेत् ॥ सू० २॥
व्याख्या-'ता' तावत् तावच्छब्दार्थः पूर्ववदेव सर्वत्र भावनीयः, यत्-अन्येषु प्रष्टव्यविषयेषु सत्स्वपि प्रथमं सूर्यचारादिविषयं पृच्छामीति गौतमवाक्यम् , हे भगवन् , 'जया णं' यदा खलु यस्मिन् काले 'सरिए सूर्यः 'सन्चभंतराओ मंडलाओ' सर्वाभ्यन्तरात् सर्वेषां मण्डलानां मध्ये यद् माभ्यन्तरं मण्डलं नहि तदने आभ्यन्तरत्वं मण्डलानाम् , तस्मात् निस्सृत्येतिशेषः 'सव्ववाहिरं मंडलं' सर्वबाह्यं मण्डलं, सर्वेषां मण्डलानां मध्ये यद् बाह्यं मण्डलं, नहि तदने मण्डलानां बाह्यत्वम् , बाह्यत्वेन सन्तिमं मण्डलं 'संकमित्ता' उपसंक्रम्य-आक्रम्यतत्रागत्येत्यर्थः 'चारं चरई' चारं चरति-गति करोति, तथा यदा च 'सव्ववाहिरामो मंडलाओ' सर्वबाह्यात् मण्डलात् प्रतिक्रम्य प्रतिनिध] 'सचन्भतरं मंडलं' सर्वाभ्यन्तरं मण्डलं 'उपसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति तदा 'एसा गं' एषा खलु 'अद्धा'एषः कालः सर्वाभ्यन्तरमण्डलान्निस्सृत्य सूर्यः सर्वबाह्यमण्डले गत्वा पुनस्तत्रैव सर्वाभ्यन्तरमण्डले समागच्छति, एतद्विषयकोऽन्तरकालः 'केवइएणं राइदियग्गेणं' कियता रात्रि न्दिवाण कतिसंख्यकेनाहोरात्रप्रमाणेन 'आहिए' आख्यतः-कथितः पूर्वतीर्थकरगणधरैः । 'त्ति' इति 'वएज्जा' वदेत् कथयतु भवान् इति गौतमप्रश्नः । भगवानाह-हे गौतम ! 'ता' तावत् प्रथमं शृणु, यत् यदा सर्वाभ्यन्तरमण्डलान्निस्सृत्य सर्ववाद्यमण्डलं प्राप्य चारं चरति, एवं सर्वबाह्यमण्डलात्प्रतिनिवर्त्य सर्वाभ्यन्तरमण्डलमभिव्याप्य चारं चरति, एतद्विपयकोऽन्तरकालः 'तिणि छावट्ठी राइंदियसयाई त्रीणि पट्पष्टिः रात्रिन्दिवशतानि षट्पष्टयुत्तरत्रिशताहोरात्राणि (३६६ ) 'आहिएत्ति' आख्यातः इयदिवसप्रमाणोपेतः सूर्यसवत्सरः कथित इति 'वएज्जा' वदेत् स्वशिष्यादिभ्य इति ॥सू० २ ॥
पुनः प्रश्नयति-ता एयाए णं' इत्यादि ।
मूलम्-ता एयाए णं अद्धाए सरिए कइ मंडलाई चरइ ? कइ मंडलाई दुक्खुत्तो चरइ ? कइ मंडलाई एगखुत्तो चरइ ? । ता चुलसीई मंडलसयं चरइ, वेयासीई च मंडलसयं दुक्खुत्तो चरइ, तं जहा-निक्खममाणे चेव पविसमाणे चेव । दुवे य खलु मंडलाई एगक्खुत्तो चरइ, तं जहा-सबभंतरं चेव मंडलं, सच्चवाहिरं चेव मंडल।सू०३॥