________________
चन्द्रप्राप्तिसूत्रे त्रसंख्या परिमावनीया । सर्वसंकलनया एकस्य युगस्य-अष्टादशशतानि त्रिंशदधिकानि अहोरात्राणिभवन्तीति ।
- अथ कथमधिकमाससंभवः येनाऽभिवर्द्धितसंवत्सर उपजायते ? एपोऽधिकमासश्च कियता कालेन संभवतीति प्रदर्यते-अत्र युगं चान्द्र-चान्द्रा-ऽभिवति-चान्द्रा-ऽभिवर्द्धितेति पञ्चसंवत्सरात्मकं भवति, सूर्यसंवत्सरापेक्षया च विचार्यमाणेऽस्मिन् युगे अन्यूनातिरिक्तानि पञ्चवर्षाणि भवन्ति । अथ सूर्यमासः सार्धत्रिंशदहोरात्रप्रमाणः (३०), चान्द्रमासश्च पूर्व प्रदर्शितो द्वात्रिंश द्वापष्टिभागसहित एकोनत्रिंशदहोरात्रप्रमाणः (२९ ३२) ततो गणितपरिपाट्या सूर्यसंवत्सर सम्बन्धित्रिशन्मासातिक्रमे एकश्चान्द्रमासोऽधिक आयाति । स च कथं लभ्यते इति ज्ञापनायात्र वृद्धसंप्रदायोक्त करण गाथा प्रोच्यते" "चंदस्स जो विसेसो, आइच्चस्स य इविज्जमासस्स
तीसइ गुणिओ संतो, हवइ अहिमासगो एक्को" ॥१॥ ___.. छाया-चन्द्रस्य यो विश्लेपः, आदित्यस्य च भवेत् मासस्य | त्रिंशद्गुणितः सन् भवति खलु अधिकमास एकः ॥१॥ इति ।
अस्या गाथाया अर्थः प्रद्यते-'आइच्चस्स मासस्स' आदित्यस्य मासस्य मध्यात् 'चंदस्स, जो विसेसो हविज्ज' आदित्यसंवत्सरसम्बन्धिनो मध्यात् चन्द्रस्य चन्द्रमासस्य विश्लेपः शोधनरूपो भवेत् स 'तीसइ गुणियो संतो' त्रिंशद्गुणितः सन् ‘एक्को अहिमासओ' एकोऽधिकमासो भवतीति गाथार्थः । एतद्गणितं यथा-सूर्यमासः सार्धत्रिंशद् दिनप्रमाणः (३०॥) चन्द्रमासश्च एकोनत्रिंशद् दिनानि, एकस्य च दिनस्य द्वात्रिंशच्च द्वापष्टिभागाः (२९३२) इतिसूर्यमास दिनेभ्यः चन्द्रमासदिनानि द्वापष्टिभागसहितानि शोध्यन्ते ततः स्थितं पश्चादेकं दिनमेकेन द्वापष्टिभागेन न्यूनम्, एतच्च सूर्यमासात् चन्द्रमासस्य प्रतिमाससत्कं न्यूनत्वम् । तच्च दिनत्रिंशता गुण्यते जातानि त्रिशदिनानि (३०) एकश्च द्वापप्टिभागोऽपि त्रिंशता गुण्यते जाता एकस्य दिनस्य 'त्रिंशद्वापष्टिभागाः (३०) एते त्रिंशद्वापष्टिभागाः त्रिंगदिनेभ्यः शोध्यन्ते, स्थितानि शेपाणि एकोनत्रिंशदिनानि एकस्य च दिनस्य द्वात्रिंशद् द्वापष्टिभागाः (२९३२, । कथमित्याह-त्रिशदिनेभ्य एक रूपं निष्कास्यते,-स्थितानि शेषाणि एकोनत्रिंशहिनानि, निष्कासितस्य एकस्य द्वापष्टि भागकरणार्थं तद् द्वाप
घ्या गुण्यते जाता द्वापष्टिः (६२) अस्माद राशे स्त्रिंशत् शोध्यन्ते स्थिताः शेपा द्वात्रिंशद् द्वाप‘ष्टिभागाः (३२) तन आगतो यथोक्त प्रमाणश्चान्द्रमासः (२९-३२) इत्येवरूपो भवति सूर्यसं-.