________________
चन्द्रप्रक्षप्तिसूत्रे शेषा सप्तविंशतिरवतिष्ठते २७, आगतोऽयं नक्षत्रमासः सप्तविंशतिरहोरात्रा नव मुहर्ताः, एकस्य मुहूर्तस्य च सप्तविंशतिः सप्तपष्टिभागाः २ । तत्र सप्तविशत्यहोरात्रा मुहूर्त्तानयनार्थम् एकस्याहोरात्रस्य त्रिंशन्मुहर्ता भवन्तीति त्रिशता गुण्यन्ते जातानि दशोत्तराणि अष्टौ शतानि ८१० तेषां मध्ये उपरिप्रदर्शितनवमुहर्त्तप्रक्षेपणेन जातानि पूर्वप्रदर्शितानि एकोनविंशत्यधिकाष्टशतानि ८१९ । आगतमेतत् नक्षत्रमासस्य मुहूर्तपरिमाणम्-एकोनविंशत्यधिकानि अष्टौ शतानि एकस्य मुहूर्तस्य च सप्तविंशतिः सप्तपष्टिभागाः ८१९-२० इति । अस्योपलक्षणत्वादेव सूर्यादिमासानामप्यहोरात्रसंख्यां परिभाव्य मुहूर्तपरिमाणं यथासूत्रं परिभावनीयम् । तदपि प्रदयते-सूर्यमासस्य पश्चदशोत्तरनवशतानि ९१५ मुहूर्तानां भवन्ति, तथाहि-एकस्मिन् युगे सूर्यमासाः पष्टिर्भवन्ति ६०, अहोरात्राणि च त्रिंशदधिकानि अष्टादश शतानि १८३० । एतेषां सूर्यमासरूपया षष्ट्या भागो हियते तदा लब्धाः त्रिंशदहोरात्राः, शेष षष्ट्या अर्धं त्रिंशदवतिष्ठते, तच्चाहोरात्रस्याधं भवति, एतावत् सार्धं त्रिंशदहोरात्रं (३०॥) सूर्यमासपरिमाणमायातम् । त्रिंशन्मुहर्तश्चाहोरात्रो भवतीति सार्वत्रिंशत् त्रिंशता गुणने कृते जातानि मुहूर्तानां नव शतानि अर्धे चाहोरात्रस्य पञ्चदश मुहूर्तास्तत आयातं पूर्वप्रदर्शितं सूर्यमासस्य मुहूर्तानां परिमाणम् पञ्चदशोत्तराणि नव शतानीति ९१५ ।
अथ चन्द्रमासमुहूर्तपरिमाणं प्रदर्श्यते-एकस्मिन् युगे चन्द्रमासा द्वाषष्टिर्भवन्ति, त्रिंशदुत्तराष्टादशशतानि १८३० चाहोरात्रा भवन्ति । एतेषामहोरात्राणां १८३० चन्द्रमाससंख्यारूपया द्वापष्टया भागे हृते लब्धानि एकोनत्रिंशदहोरात्राः एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वापष्टिभागाः २९३२ अथवा-साधैकोनत्रिंशदहोरात्राणि-एकश्च-द्वापष्टिभागः२९-१ । एते द्वात्रिशद् द्वाषष्टिभागा मुहगनयनाथ त्रिंशता गुण्यन्ते तेन जातानि षष्टयुत्तराणि-नव शतानि ९६० । एतेषां द्वापष्टया भागे हृते लब्धाः पञ्चदश मुहूर्ताः, शेषाश्च त्रिंशत् ३० । एकोनत्रिंशत् २९ अहोरा. त्राश्च मुह नयनाथ त्रिशता गुण्यन्ते ततो जातानि सप्तत्युत्तराणि अष्टौ शतानि ८७०, ततः पूर्वप्रदर्शितानां पञ्चदशमुहन्नामेषु प्रक्षेपणे समागतं चन्द्रमासे मुहूर्तपरिमाणम् पञ्चाशीत्युत्तराणि अष्टौ शतानि, एकस्य मुहूर्त्तस्य च त्रिंशद् द्वापष्टिभागाः ८८५-३० इति ।
अथ ऋतुमासमुहूर्तपरिमाणं प्रदश्यते-एकस्मिन् युगे त्रिंशद् ऋतवो भवन्ति । ऋतुमासश्च त्रिंशदहोरात्रपरिमितो भवति । अस्य नव शतानि मुहूर्तानां भवन्ति ९००, तथाहि-युगस्याहोरात्रा
६२