________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १-१ सू०१ सूर्यादिमासाऽहोरात्रवृद्धिहानिनि० १७ दिशं प्रतिगतः । तेण कालेणं' तस्मिन् काले परिषत्प्रतिगमनानन्तरं 'तेणं समएणं' तस्मिन् समये परिषद्गमनानन्तरं तदुपलक्षितसमये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेहे अंतेवासी' ज्येष्ठोऽन्तेवासी प्रधानशिष्यः, अनेन गौतमस्य प्रथमागमनं सकलसंघाधिपतित्वं च सूच्यते । 'इंदभूई णाम अणगारे'। इन्द्रभूतिर्नाम-इन्द्रभूतिनामकः अनगारः वाह्याभ्यन्तरपरिग्रहवर्जितः, 'गोयमगोत्ते' गौतमगोत्र:-गोत्रेण गौतमः गौतमगोत्रोत्पन्न इत्यर्थः, किं विशिष्टः ? इत्याह- 'सत्तुस्सेहे' सप्तोत्सेधः सप्तहस्तोच्छेययुक्तशरीरधारी 'जाव' यावत्, अत्र याव त्पदेन 'समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे' इत्यारभ्य 'सुस्मसमाणे णमंसमाणे अभिमुहे विणएणं' इत्यादि संग्रात्यम्, तद्वयाख्यानं च श्रीभगवतीसूत्रस्य प्रथमशतकेऽस्मत्कृतायां प्रमेयचन्द्रिकाटीकायां विलोकनीयम् । 'पज्जुवासमाणे' पर्युपासीनः मनोवाक्कायरूपया त्रिविधया पर्युपासनया सेवां कुर्वन् ‘एवं वयासी' एवमवादीत्-एवम्-वक्ष्यमाणप्रकारेण अवादीत्-कथितवान् । किं कथितवान् ? इत्याह-'ता कहं ते' इत्यादि । 'ता कहं ते' तावत् कथं ते तावत् प्रथमम् सन्न्यप्यन्येऽस्यां चन्द्रप्रज्ञप्त्यां बहवो विषया प्रष्टव्यत्वेन, किन्तु आसतां ते, साम्प्रतं पूर्व त्वेतावदेव पृच्छामि यत्-हे भगवन् ते-तव मते तव ज्ञानविषये कथं केन प्रकारेण 'मुहुत्ताण' मुहर्तानाम् नक्षत्रसूर्यचन्द्रप्रस्तुमाससम्बन्धिनाम् अहोरात्रविषयाणां 'बुइढोवुड्ढी य' वृद्धयवृद्धी च चकारोऽत्र पृथक्पटापेक्षया, तेन वृद्धिरपवृद्धिश्चेति ज्ञातव्यम् । वृद्धिः दिवसरात्रिगतमुहर्तानां वर्धनम् , अपवृद्धिः-तेषामेव हानिश्च 'आहिएत्ति' आख्याते-कथिते इति 'वएज्जा' वदेत् एतद्विषयं यदि कोऽपि मां पृच्छेत् तदाऽहं किमुत्तरं ददामीति हे भगवन् ! कृपया भवान् वदतु कथयतु । एवमग्रेऽपि विज्ञेयम् | भगवानाह-हे गोतम ! 'ता' तावत् प्रथमम् यथा त्वया यत् प्रथमं पृष्टं तदेव तदुत्तरमाश्रित्य प्रथमं कथयामि, तथाहि-'अठ एगृणवीसं मुहुत्तसयाई अष्टौ एकोनविंशतिर्मुहर्तशतानि, एकस्य नक्षत्रमासस्य एकोनविंशत्यधिकान्यष्टशतानि(८१९) मुहर्तानाम्, तथा 'मुहुत्तस्स' मुहर्त्तस्य एकस्य च मुहूर्तस्य 'सत्तावीसं च' सप्तविंशतिश्च 'सत्तसटिभागा' सप्तपप्टिभागाः, एकस्य मुहर्तस्य यदि सप्तपष्टिर्भागाः क्रियन्ते तेषु सप्तविंशतिभांगा गृह्यन्ते (८१९२७) एतावन्मुहूर्त्तपरिमितो नक्षत्रमासो भवतीति 'आहिए त्ति'आख्यातम् इति 'वएज्जा' वदेत् एवं पृच्छकस्य कथ्यतामिति । एतदेव स्पष्टयति-इह चन्द्र-चन्द्रा-ऽभिवर्द्धित-चन्द्राऽभिवर्द्धितरूपपञ्चसंवत्सरात्मके युगे मप्तपष्टिनक्षत्रमासा (६७) भवन्ति, अहोरात्ररूपाणि दिनानि च त्रिंशदधिकानि अष्टादशशतानि (१८३०) भवन्ति, एतेषां सप्तषष्टिसंख्यकनक्षत्रमासैर्भागे हृते लब्धानि सप्तविंशतिरहोरात्राणि (२७) शेषा तिष्ठत्येकविशतिः । सा मुहूर्त्तानयनाथ त्रिंशता गुणने जातानि त्रिंशदधिकानि षट् शतानि ६३०। एतेषां सप्तषष्ट्या भागो ह्रियते, लब्धा नव९ मुहूर्ताः,